श्रीमद्भागवत तृतीय स्कन्ध अध्याय 4
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.4.1
अथ ते तद्अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर् मर्म पस्पृशुः ॥ 1 ॥
श्लोक 3.4.2
तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् ॥ 2 ॥
श्लोक 3.4.3
भगवान् स्वात्ममायाया गतिं ताम् अवलोक्य सः । सरस्वतीम् उपस्पृश्य वृक्षमूलम् उपाविशत् ॥ 3 ॥
श्लोक 3.4.4
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ 4 ॥
श्लोक 3.4.5
तथापि तद्अभिप्रेतं जानन्न् अहम् अरिन्दम । पृष्ठतो ऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ 5 ॥
श्लोक 3.4.6
अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतम् अकेतनम् ॥ 6 ॥
श्लोक 3.4.7
श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश् चतुर्भिर् विदितं पीतकौशाम्बरेण च ॥ 7 ॥
श्लोक 3.4.8
वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् । अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्तपिप्पलम् ॥ 8 ॥
श्लोक 3.4.9
तस्मिन् महाभागवतो द्वैपायनसुहृत्सखा । लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ 9 ॥
श्लोक 3.4.10
तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोदभावानतकन्धरस्य । आशृण्वतो माम् अनुरागहाससमीक्षया विश्रमयन्न् उवाच ॥ 10 ॥
श्लोक 3.4.11
वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः ॥ 11 ॥
श्लोक 3.4.12
स एष साधो चरमो भवानाम् आसादितस् ते मद्अनुग्रहो यत् । यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ 12 ॥
श्लोक 3.4.13
पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत् सूरयो भागवतं वदन्ति ॥ 13 ॥
श्लोक 3.4.14
इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनो ऽहम् । स्नेहोत्थरोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे ॥ 14 ॥
श्लोक 3.4.15
को न्व् ईश ते पादसरोजभाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥ 15 ॥
श्लोक 3.4.16
कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारिभयात् पलायनम् । कालात्मनो यत् प्रमदायुताश्रमः स्वात्मन्रतेः खिद्यति धीर् विदाम् इह ॥ 16 ॥
श्लोक 3.4.17
मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्डसदात्मबोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव ॥ 17 ॥
श्लोक 3.4.18
ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्तर् वदाञ्जसा यद् वृजिनं तरेम ॥ 18 ॥
श्लोक 3.4.19
इत्य् आवेदितहार्दाय मह्यं स भगवान् परः । आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ 19 ॥
श्लोक 3.4.20
स एवम् आराधितपादतीर्थाद् अधीततत्त्वात्मविबोधमार्गः । प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा ॥ 20 ॥
श्लोक 3.4.21
सो ऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ 21 ॥
श्लोक 3.4.22
यत्र नारायणो देवो नरश् च भगवान् ऋषिः । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ 22 ॥
श्लोक 3.4.23
इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् । ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः ॥ 23 ॥
श्लोक 3.4.24
स तं महाभागवतं व्रजन्तं कौरवर्षभः । विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ 24 ॥
श्लोक 3.4.25
ज्ञानं परं स्वात्मरहःप्रकाशं यद् आह योगेश्वर ईश्वरस् ते । वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्वभृत्यार्थकृतश् चरन्ति ॥ 25 ॥
श्लोक 3.4.26
ननु ते तत्त्वसंराध्य ऋषिः कौषारवो ऽन्तिके । साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ 26 ॥
श्लोक 3.4.27
इति सह विदुरेण विश्वमूर्तेर् गुणकथया सुधया प्लावितोरुतापः । क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात् ॥ 27 ॥
श्लोक 3.4.28
निधनम् उपगतेषु वृष्णिभोजेष्व् अधिरथयूथपयूथपेषु मुख्यः । स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः ॥ 28 ॥
श्लोक 3.4.29
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् ॥ 29 ॥
श्लोक 3.4.30
अस्माल् लोकाद् उपरते मयि ज्ञानं मद्आश्रयम् । अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः ॥ 30 ॥
श्लोक 3.4.31
नोद्धवो ऽण्व् अपि मन्न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥ 31 ॥
श्लोक 3.4.32
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना । बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना ॥ 32 ॥
श्लोक 3.4.33
विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ 33 ॥
श्लोक 3.4.34
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ 34 ॥
श्लोक 3.4.35
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ 35 ॥
श्लोक 3.4.36
कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ । प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ 36 ॥