मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 5

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.5.1

द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाधबोधम् । क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ सौशील्यगुणाभितृप्तः ॥ 1 ॥

श्लोक 3.5.2

सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्उपारमं वा । विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः ॥ 2 ॥

श्लोक 3.5.3

जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्मशीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ 3 ॥

श्लोक 3.5.4

तत् साधुवर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ 4 ॥

श्लोक 3.5.5

करोति कर्माणि कृतावतारो यान्य् आत्मतन्त्रो भगवांस् त्र्यधीशः । यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ 5 ॥

श्लोक 3.5.6

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः । योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत् ॥ 6 ॥

श्लोक 3.5.7

क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्य् अवतारभेदैः । मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोकमौलेश् चरितामृतानि ॥ 7 ॥

श्लोक 3.5.8

यैस् तत्त्वभेदैर् अधिलोकनाथो लोकान् अलोकान् सह लोकपालान् । अचीकॢपद् यत्र हि सर्वसत्त्वनिकायभेदो ऽधिकृतः प्रतीतः ॥ 8 ॥

श्लोक 3.5.9

येन प्रजानाम् उत आत्मकर्मरूपाभिधानां च भिदां व्यधत्त । नारायणो विश्वसृग् आत्मयोनिर् एतच् च नो वर्णय विप्रवर्य ॥ 9 ॥

श्लोक 3.5.10

परावरेषां भगवन् व्रतानि श्रुतानि मे व्यासमुखाद् अभीक्ष्णम् । अतृप्नुम क्षुल्लसुखावहानां तेषाम् ऋते कृष्णकथामृतौघात् ॥ 10 ॥

श्लोक 3.5.11

कस् तृप्नुयात् तीर्थपदो ऽभिधानात् सत्रेषु वः सूरिभिर् ईड्यमानात् । यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति ॥ 11 ॥

श्लोक 3.5.12

मुनिर् विवक्षुर् भगवद्गुणानां सखापि ते भारतम् आह कृष्णः । यस्मिन् नृणां ग्राम्यसुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् ॥ 12 ॥

श्लोक 3.5.13

सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः । हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययम् आशु धत्ते ॥ 13 ॥

श्लोक 3.5.14

ताञ् छोच्यशोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन । क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथावादगतिस्मृतीनाम् ॥ 14 ॥

श्लोक 3.5.15

तद् अस्य कौषारव शर्मदातुर् हरेः कथाम् एव कथासु सारम् । उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥ 15 ॥

श्लोक 3.5.16

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः । चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ 16 ॥

श्लोक 3.5.17

स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः । पुंसां निःश्रेयसार्थेन तम् आह बहुमानयन् ॥ 17 ॥

श्लोक 3.5.18

साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता । कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः ॥ 18 ॥

श्लोक 3.5.19

नैतच् चित्रं त्वयि क्षत्तर् बादरायणवीर्यजे । गृहीतो ऽनन्यभावेन यत् त्वया हरिर् ईश्वरः ॥ 19 ॥

श्लोक 3.5.20

माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः । भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ 20 ॥

श्लोक 3.5.21

भवान् भगवतो नित्यं सम्मतः सानुगस्य ह । यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् ॥ 21 ॥

श्लोक 3.5.22

अथ ते भगवल्लीला योगमायोरुबृंहिताः । विश्वस्थित्य्उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः ॥ 22 ॥

श्लोक 3.5.23

भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः । आत्मेच्छानुगताव् आत्मा नानामत्य्उपलक्षणः ॥ 23 ॥

श्लोक 3.5.24

स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकराट् । मेने ऽसन्तम् इवात्मानं सुप्तशक्तिर् असुप्तदृक् ॥ 24 ॥

श्लोक 3.5.25

सा वा एतस्य संद्रष्टुः शक्तिः सद्असद्आत्मिका । माया नाम महाभाग ययेदं निर्ममे विभुः ॥ 25 ॥

श्लोक 3.5.26

कालवृत्त्या तु मायायां गुणमय्याम् अधोक्षजः । पुरुषेणात्मभूतेन वीर्यम् आधत्त वीर्यवान् ॥ 26 ॥

श्लोक 3.5.27

ततो ऽभवन् महत्तत्त्वम् अव्यक्तात् कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस् तमोनुदः ॥ 27 ॥

श्लोक 3.5.28

सो ऽप्य् अंशगुणकालात्मा भगवद्दृष्टिगोचरः । आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ 28 ॥

श्लोक 3.5.29

महत्तत्त्वाद् विकुर्वाणाद् अहंतत्त्वं व्यजायत । कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ 29 ॥

श्लोक 3.5.30

वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा । अहंतत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् । वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः ॥ 30 ॥

श्लोक 3.5.31

तैजसानीन्द्रियाण्य् एव ज्ञानकर्ममयानि च । तामसो भूतसूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः ॥ 31 ॥

श्लोक 3.5.32

कालमायांशयोगेन भगवद्वीक्षितं नभः । नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम् ॥ 32 ॥

श्लोक 3.5.33

अनिलो ऽपि विकुर्वाणो नभसोरुबलान्वितः । ससर्ज रूपतन्मात्रं ज्योतिर् लोकस्य लोचनम् ॥ 33 ॥

श्लोक 3.5.34

अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् । आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ 34 ॥

श्लोक 3.5.35

ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितम् । महीं गन्धगुणाम् आधात् कालमायांशयोगतः ॥ 35 ॥

श्लोक 3.5.36

भूतानां नभआदीनां यद् यद् भव्यावरावरम् । तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ 36 ॥

श्लोक 3.5.37

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः । नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ 37 ॥

श्लोक 3.5.38

नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् । यन्मूलकेता यतयो ऽञ्जसोरुसंसारदुःखं बहिर् उत्क्षिपन्ति ॥ 38 ॥

श्लोक 3.5.39

धातर् यद् अस्मिन् भव ईश जीवास् तापत्रयेणाभिहता न शर्म । आत्मन् लभन्ते भगवंस् तवाङ्घ्रिच्छायां सविद्याम् अत आश्रयेम ॥ 39 ॥

श्लोक 3.5.40

मार्गन्ति यत् ते मुखपद्मनीडैश् छन्दःसुपर्णैर् ऋषयो विविक्ते । यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥ 40 ॥

श्लोक 3.5.41

यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय । ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत् ते ऽङ्घ्रिसरोजपीठम् ॥ 41 ॥

श्लोक 3.5.42

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्वपुंसाम् ॥ 42 ॥

श्लोक 3.5.43

यत् सानुबन्धे ऽसति देहगेहे ममाहम् इत्य् ऊढदुराग्रहाणाम् । पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् ॥ 43 ॥

श्लोक 3.5.44

तान् वै ह्य् असद्वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः ॥ 44 ॥

श्लोक 3.5.45

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुर् अकुण्ठधिष्ण्यम् ॥ 45 ॥

श्लोक 3.5.46

तथापरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते ॥ 46 ॥

श्लोक 3.5.47

तत् ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म । सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते ॥ 47 ॥

श्लोक 3.5.48

यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः ॥ 48 ॥

श्लोक 3.5.49

त्वं नः सुराणाम् असि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः । त्वं देव शक्त्यां गुणकर्मयोनौ रेतस् त्व् अजायां कविम् आदधे ऽजः ॥ 49 ॥

श्लोक 3.5.50

ततो वयं मत्प्रमुखा यद्अर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्अनुग्रहाणाम् ॥ 50 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ