मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 1

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.1.1

मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे । आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः ॥ 1 ॥

श्लोक 4.1.2

आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिकाधर्मम् आश्रित्य शतरूपानुमोदितः ॥ 2 ॥

श्लोक 4.1.3

प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ 3 ॥

श्लोक 4.1.4

यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेर् अंशभूतानपायिनी ॥ 4 ॥

श्लोक 4.1.5

आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् ॥ 5 ॥

श्लोक 4.1.6

तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषम् आपन्नो ऽ जनयद् द्वादशात्मजान् ॥ 6 ॥

श्लोक 4.1.7

तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः । इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ 7 ॥

श्लोक 4.1.8

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ 8 ॥

श्लोक 4.1.9

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणाम् अनुवृत्तं तद्अन्तरम् ॥ 9 ॥

श्लोक 4.1.10

देवहूतिम् अदात् तात कर्दमायात्मजां मनुः । तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ 10 ॥

श्लोक 4.1.11

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः । प्रायच्छद् यत्कृतः सर्गस् त्रिलोक्यां विततो महान् ॥ 11 ॥

श्लोक 4.1.12

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ 12 ॥

श्लोक 4.1.13

पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् ॥ 13 ॥

श्लोक 4.1.14

पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पादशौचाद् याभूत् सरिद् दिवः ॥ 14 ॥

श्लोक 4.1.15

अत्रेः पत्न्य् अनसूया त्रीञ् जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमम् आत्मेशब्रह्मसम्भवान् ॥ 15 ॥

श्लोक 4.1.16

अत्रेर् गृहे सुरश्रेष्ठाः स्थित्य्उत्पत्त्य्अन्तहेतवः । किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो ॥ 16 ॥

श्लोक 4.1.17

ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्मविदां वरः । सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः ॥ 17 ॥

श्लोक 4.1.18

तस्मिन् प्रसूनस्तबकपलाशाशोककानने । वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ 18 ॥

श्लोक 4.1.19

प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठद् एकपादेन निर्द्वन्द्वो ऽनिलभोजनः ॥ 19 ॥

श्लोक 4.1.20

शरणं तं प्रपद्ये ऽहं य एव जगद्ईश्वरः । प्रजाम् आत्मसमां मह्यं प्रयच्छत्व् इति चिन्तयन् ॥ 20 ॥

श्लोक 4.1.21

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥ 21 ॥

श्लोक 4.1.22

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः । वितायमानयशसस् तद्आश्रमपदं ययुः ॥ 22 ॥

श्लोक 4.1.23

तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः । उत्तिष्ठन्न् एकपादेन ददर्श विबुधर्षभान् ॥ 23 ॥

श्लोक 4.1.24

प्रणम्य दण्डवद् भूमाव् उपतस्थे ऽर्हणाञ्जलिः । वृषहंससुपर्णस्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् ॥ 24 ॥

श्लोक 4.1.25

कृपावलोकेन हसद्वदनेनोपलम्भितान् । तद्रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी ॥ 25 ॥

श्लोक 4.1.26

चेतस् तत्प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ 26 ॥

श्लोक 4.1.27

विश्वोद्भवस्थितिलयेषु विभज्यमानैर् मायागुणैर् अनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतो ऽस्म्य् अहं वस् तेभ्यः क एव भवतां म इहोपहूतः ॥ 27 ॥

श्लोक 4.1.28

एको मयेह भगवान् विविधप्रधानैश् चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास् तनुभृतां मनसो ऽपि दूराद् ब्रूत प्रसीदत महान् इह विस्मयो मे ॥ 28 ॥

श्लोक 4.1.29

इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो ॥ 29 ॥

श्लोक 4.1.30

यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् ॥ 30 ॥

श्लोक 4.1.31

अथास्मद्अंशभूतास् ते आत्मजा लोकविश्रुताः । भवितारो ऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ 31 ॥

श्लोक 4.1.32

एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः ॥ 32 ॥

श्लोक 4.1.33

सोमो ऽभूद् ब्रह्मणो ऽंशेन दत्तो विष्णोस् तु योगवित् । दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ 33 ॥

श्लोक 4.1.34

श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रो ऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्य् अनुमतिस् तथा ॥ 34 ॥

श्लोक 4.1.35

तत्पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषे ऽन्तरे । उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः ॥ 35 ॥

श्लोक 4.1.36

पुलस्त्यो ऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि । सो ऽन्यजन्मनि दह्राग्निर् विश्रवाश् च महातपाः ॥ 36 ॥

श्लोक 4.1.37

तस्य यक्षपतिर् देवः कुबेरस् त्व् इडविडासुतः । रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः ॥ 37 ॥

श्लोक 4.1.38

पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ 38 ॥

श्लोक 4.1.39

क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत । ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ 39 ॥

श्लोक 4.1.40

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप । चित्रकेतुप्रधानास् ते सप्त ब्रह्मर्षयो ऽमलाः ॥ 40 ॥

श्लोक 4.1.41

चित्रकेतुः सुरोचिश् च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्य्आदयो ऽपरे ॥ 41 ॥

श्लोक 4.1.42

चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे ॥ 42 ॥

श्लोक 4.1.43

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रान् अजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥ 43 ॥

श्लोक 4.1.44

आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् । ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च ॥ 44 ॥

श्लोक 4.1.45

मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः । कविश् च भार्गवो यस्य भगवान् उशना सुतः ॥ 45 ॥

श्लोक 4.1.46

त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् । एष कर्दमदौहित्रसन्तानः कथितस् तव । शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ 46 ॥

श्लोक 4.1.47

प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ 47 ॥

श्लोक 4.1.48

त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ 48 ॥

श्लोक 4.1.49

श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः ॥ 49 ॥

श्लोक 4.1.50

श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत ॥ 50 ॥

श्लोक 4.1.51

योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ 51 ॥

श्लोक 4.1.52

मूर्तिः सर्वगुणोत्पत्तिर् नरनारायणाव् ऋषी ॥ 52 ॥

श्लोक 4.1.53

ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितो ऽद्रयः ॥ 53 ॥

श्लोक 4.1.54

दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः । मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्वकिन्नराः ॥ 54 ॥

श्लोक 4.1.55

नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः ॥ 55 ॥

श्लोक 4.1.56

यो मायया विरचितं निजयात्मनीदं खे रूपभेदम् इव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ 56 ॥

श्लोक 4.1.57

सो ऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः । दृश्याद् अदभ्रकरुणेन विलोकनेन यच् छ्रीनिकेतम् अमलं क्षिपतारविन्दम् ॥ 57 ॥

श्लोक 4.1.58

एवं सुरगणैस् तात भगवन्ताव् अभिष्टुतौ । लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् ॥ 58 ॥

श्लोक 4.1.59

ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ 59 ॥

श्लोक 4.1.60

स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ 60 ॥

श्लोक 4.1.61

तेभ्यो ऽग्नयः समभवन् चत्वारिंशच् च पञ्च च । त एवैकोनपञ्चाशत् साकं पितृपितामहैः ॥ 61 ॥

श्लोक 4.1.62

वैतानिके कर्मणि यन्नामभिर् ब्रह्मवादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्ते ऽग्नयस् तु ते ॥ 62 ॥

श्लोक 4.1.63

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयो ऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा ॥ 63 ॥

श्लोक 4.1.64

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ 64 ॥

श्लोक 4.1.65

भवस्य पत्नी तु सती भवं देवम् अनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥ 65 ॥

श्लोक 4.1.66

पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानम् अजहाद् योगसंयुता ॥ 66 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ