श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 2
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.2.1
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः । विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ 1 ॥
श्लोक 4.2.2
कस् तं चराचरगुरुं निर्वैरं शान्तविग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ 2 ॥
श्लोक 4.2.3
एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती ॥ 3 ॥
श्लोक 4.2.4
पुरा विश्वसृजां सत्रे समेताः परमर्षयः । तथामरगणाः सर्वे सानुगा मुनयो ऽग्नयः ॥ 4 ॥
श्लोक 4.2.5
तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः ॥ 5 ॥
श्लोक 4.2.6
उदतिष्ठन् सदस्यास् ते स्वधिष्ण्येभ्यः सहाग्नयः । ऋते विरिञ्चां शर्वं च तद्भासाक्षिप्तचेतसः ॥ 6 ॥
श्लोक 4.2.7
सदसस्पतिभिर् दक्षो भगवान् साधु सत्कृतः । अजं लोकगुरुं नत्वा निषसाद तद्आज्ञया ॥ 7 ॥
श्लोक 4.2.8
प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्अनादृतः । उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव ॥ 8 ॥
श्लोक 4.2.9
श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् ॥ 9 ॥
श्लोक 4.2.10
अयं तु लोकपालानां यशोघ्नो निरपत्रपः । सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः ॥ 10 ॥
श्लोक 4.2.11
एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् । पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ 11 ॥
श्लोक 4.2.12
गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः । प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् ॥ 12 ॥
श्लोक 4.2.13
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे । अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् ॥ 13 ॥
श्लोक 4.2.14
प्रेतावासेषु घोरेषु प्रेतैर् भूतगणैर् वृतः । अटत्य् उन्मत्तवन् नग्नो व्युप्तकेशो हसन् रुदन् ॥ 14 ॥
श्लोक 4.2.15
चिताभस्मकृतस्नानः प्रेतस्रङ्न्रस्थिभूषणः । शिवापदेशो ह्य् अशिवो मत्तो मत्तजनप्रियः । पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ 15 ॥
श्लोक 4.2.16
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ 16 ॥
श्लोक 4.2.17
विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् । दक्षो ऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ 17 ॥
श्लोक 4.2.18
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर् भवः । सह भागं न लभतां देवैर् देवगणाधमः ॥ 18 ॥
श्लोक 4.2.19
निषिध्यमानः स सदस्यमुख्यैर् दक्षो गिरित्राय विसृज्य शापम् । तस्माद् विनिष्क्रम्य विवृद्धमन्युर् जगाम कौरव्य निजं निकेतनम् ॥ 19 ॥
श्लोक 4.2.20
विज्ञाय शापं गिरिशानुगाग्रणीर् नन्दीश्वरो रोषकषायदूषितः । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस् तद्अवाच्यतां द्विजाः ॥ 20 ॥
श्लोक 4.2.21
य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि । द्रुह्यत्य् अज्ञः पृथग्दृष्टिस् तत्त्वतो विमुखो भवेत् ॥ 21 ॥
श्लोक 4.2.22
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ 22 ॥
श्लोक 4.2.23
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः । स्त्रीकामः सो ऽस्त्व् अतितरां दक्षो बस्तमुखो ऽचिरात् ॥ 23 ॥
श्लोक 4.2.24
विद्याबुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः । संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् ॥ 24 ॥
श्लोक 4.2.25
गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ 25 ॥
श्लोक 4.2.26
सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः । वित्तदेहेन्द्रियारामा याचका विचरन्त्व् इह ॥ 26 ॥
श्लोक 4.2.27
तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै । भृगुः प्रत्यसृजच् छापं ब्रह्मदण्डं दुरत्ययम् ॥ 27 ॥
श्लोक 4.2.28
भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस् ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ 28 ॥
श्लोक 4.2.29
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः । विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ 29 ॥
श्लोक 4.2.30
ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ । सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः ॥ 30 ॥
श्लोक 4.2.31
एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुर् यत्प्रमाणं जनार्दनः ॥ 31 ॥
श्लोक 4.2.32
तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ 32 ॥
श्लोक 4.2.33
तस्यैवं वदतः शापं भृगोः स भगवान् भवः । निश्चक्राम ततः किञ्चिद् विमना इव सानुगः ॥ 33 ॥
श्लोक 4.2.34
ते ऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ 34 ॥
श्लोक 4.2.35
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः ॥ 35 ॥