श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 3
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.3.1
सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः । जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे ॥ 1 ॥
श्लोक 4.3.2
यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयो ऽभवत् ॥ 2 ॥
श्लोक 4.3.3
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च । बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ 3 ॥
श्लोक 4.3.4
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः । आसन् कृतस्वस्त्ययनास् तत्पत्न्यश् च सभर्तृकाः ॥ 4 ॥
श्लोक 4.3.5
तद् उपश्रुत्य नभसि खेचराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ 5 ॥
श्लोक 4.3.6
व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः । विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ 6 ॥
श्लोक 4.3.7
दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर् मृष्टकुण्डलाः । पतिं भूतपतिं देवम् औत्सुक्याद् अभ्यभाषत ॥ 7 ॥
श्लोक 4.3.8
प्रजापतेस् ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्य् अर्थितामी विबुधा व्रजन्ति हि ॥ 8 ॥
श्लोक 4.3.9
तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः । अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम् अर्हितुम् ॥ 9 ॥
श्लोक 4.3.10
तत्र स्वसॄर् मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिर् उन्नीयमानं च मृडाध्वरध्वजम् ॥ 10 ॥
श्लोक 4.3.11
त्वय्य् एतद् आश्चर्यम् अजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् । तथाप्य् अहं योषिद् अतत्त्वविच् च ते दीना दिदृक्षे भव मे भवक्षितिम् ॥ 11 ॥
श्लोक 4.3.12
पश्य प्रयान्तीर् अभवान्ययोषितो ऽप्य् अलङ्कृताः कान्तसखा वरूथशः । यासां व्रजद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥ 12 ॥
श्लोक 4.3.13
कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गते । अनाहुता अप्य् अभियन्ति सौहृदं भर्तुर् गुरोर् देहकृतश् च केतनम् ॥ 13 ॥
श्लोक 4.3.14
तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं कर्तुं भवान् कारुणिको बतार्हति । त्वयात्मनो ऽर्धे ऽहम् अदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः ॥ 14 ॥
श्लोक 4.3.15
एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः । संस्मारितो मर्मभिदः कुवाग्इषून् यान् आह को विश्वसृजां समक्षतः ॥ 15 ॥
श्लोक 4.3.16
त्वयोदितं शोभनम् एव शोभने अनाहुता अप्य् अभियन्ति बन्धुषु । ते यद्य् अनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥ 16 ॥
श्लोक 4.3.17
विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिर् असत्तमेतरैः । स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ 17 ॥
श्लोक 4.3.18
नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयाद् अनवस्थितात्मनाम् । ये ऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिर् अमर्षणाक्षिभिः ॥ 18 ॥
श्लोक 4.3.19
तथारिभिर् न व्यथते शिलीमुखैः शेते ऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्रधियां दुरुक्तिभिर् दिवानिशं तप्यति मर्मताडितः ॥ 19 ॥
श्लोक 4.3.20
व्यक्तं त्वम् उत्कृष्टगतेः प्रजापतेः प्रियात्मजानाम् असि सुभ्रु मे मता । तथापि मानं न पितुः प्रपत्स्यसे मद्आश्रयात् कः परितप्यते यतः ॥ 20 ॥
श्लोक 4.3.21
पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् । अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ 21 ॥
श्लोक 4.3.22
प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ 22 ॥
श्लोक 4.3.23
सत्त्वं विशुद्धं वसुदेवशब्दितं यद् ईयते तत्र पुमान् अपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे नमसा विधीयते ॥ 23 ॥
श्लोक 4.3.24
तत् ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट् तद्अनुव्रताश् च ये । यो विश्वसृग्यज्ञगतं वरोरु माम् अनागसं दुर्वचसाकरोत् तिरः ॥ 24 ॥
श्लोक 4.3.25
यदि व्रजिष्यस्य् अतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात् पराभवो यदा स सद्यो मरणाय कल्पते ॥ 25 ॥