श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 31
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 31 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.31.1
तत उत्पन्नविज्ञाना आश्व् अधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ 1 ॥
श्लोक 4.31.2
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धो ऽभूद् यत्र जाजलिः ॥ 2 ॥
श्लोक 4.31.3
तान् निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् । परे ऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ 3 ॥
श्लोक 4.31.4
तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् ॥ 4 ॥
श्लोक 4.31.5
स्वागतं ते सुरर्षे ऽद्य दिष्ट्या नो दर्शनं गतः । तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः ॥ 5 ॥
श्लोक 4.31.6
यद् आदिष्टं भगवता शिवेनाधोक्षजेन च । तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ 6 ॥
श्लोक 4.31.7
तन् नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् । येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ 7 ॥
श्लोक 4.31.8
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः । भगवत्य् उत्तमश्लोक आविष्टात्माब्रवीन् नृपान् ॥ 8 ॥
श्लोक 4.31.9
तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥ 9 ॥
श्लोक 4.31.10
किं जन्मभिस् त्रिभिर् वेह शौक्रसावित्रयाज्ञिकैः । कर्मभिर् वा त्रयीप्रोक्तैः पुंसो ऽपि विबुधायुषा ॥ 10 ॥
श्लोक 4.31.11
श्रुतेन तपसा वा किं वचोभिश् चित्तवृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ 11 ॥
श्लोक 4.31.12
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोर् अपि । किं वा श्रेयोभिर् अन्यैश् च न यत्रात्मप्रदो हरिः ॥ 12 ॥
श्लोक 4.31.13
श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः । सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥ 13 ॥
श्लोक 4.31.14
यथा तरोर् मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ 14 ॥
श्लोक 4.31.15
यथैव सूर्यात् प्रभवन्ति वारः पुनश् च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्गमानि तथा हराव् एव गुणप्रवाहः ॥ 15 ॥
श्लोक 4.31.16
एतत् पदं तज् जगद्आत्मनः परं सकृद् विभातं सवितुर् यथा प्रभा । यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः ॥ 16 ॥
श्लोक 4.31.17
यथा नभस्य् अभ्रतमःप्रकाशा भवन्ति भूपा न भवन्त्य् अनुक्रमात् । एवं परे ब्रह्मणि शक्तयस् त्व् अमू रजस् तमः सत्त्वम् इति प्रवाहः ॥ 17 ॥
श्लोक 4.31.18
तेनैकम् आत्मानम् अशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । स्वतेजसा ध्वस्तगुणप्रवाहम् आत्मैकभावेन भजध्वम् अद्धा ॥ 18 ॥
श्लोक 4.31.19
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः ॥ 19 ॥
श्लोक 4.31.20
अपहतसकलैषणामलात्मन्य् अविरतम् एधितभावनोपहूतः । निजजनवशगत्वम् आत्मनो ऽयन् न सरति छिद्रवद् अक्षरः सतां हि ॥ 20 ॥
श्लोक 4.31.21
न भजति कुमनीषिणां स इज्यां हरिर् अधनात्मधनप्रियो रसज्ञः । श्रुतधनकुलकर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु ॥ 21 ॥
श्लोक 4.31.22
श्रियम् अनुचरतीं तद्अर्थिनश् च द्विपदपतीन् विबुधांश् च यत् स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृतज्ञः ॥ 22 ॥
श्लोक 4.31.23
इति प्रचेतसो राजन्न् अन्याश् च भगवत्कथाः । श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ 23 ॥
श्लोक 4.31.24
ते ऽपि तन्मुखनिर्यातं यशो लोकमलापहम् । हरेर् निशम्य तत्पादं ध्यायन्तस् तद्गतिं ययुः ॥ 24 ॥
श्लोक 4.31.25
एतत् ते ऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ 25 ॥
श्लोक 4.31.26
य एष उत्तानपदो मानवस्यानुवर्णितः । वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ 26 ॥
श्लोक 4.31.27
यो नारदाद् आत्मविद्याम् अधिगम्य पुनर् महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ 27 ॥
श्लोक 4.31.28
इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् । प्रवृद्धभावो ऽश्रुकलाकुलो मुनेर् दधार मूर्ध्ना चरणं हृदा हरेः ॥ 28 ॥
श्लोक 4.31.29
सो ऽयम् अद्य महायोगिन् भवता करुणात्मना । दर्शितस् तमसः पारो यत्राकिञ्चनगो हरिः ॥ 29 ॥
श्लोक 4.31.30
इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् । स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ 30 ॥
श्लोक 4.31.31
एतद् यः शृणुयाद् राजन् राज्ञां हर्य्अर्पितात्मनाम् । आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् ॥ 31 ॥