मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 30

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 30 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.30.1

ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्रगीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् ॥ 1 ॥

श्लोक 4.30.2

किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनम् अथ प्रचेतसः ॥ 2 ॥

श्लोक 4.30.3

प्रचेतसो ऽन्तर् उदधौ पितुर् आदेशकारिणः । अपयज्ञेन तपसा पुरञ्जनम् अतोषयन् ॥ 3 ॥

श्लोक 4.30.4

दशवर्षसहस्रान्ते पुरुषस् तु सनातनः । तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ 4 ॥

श्लोक 4.30.5

सुपर्णस्कन्धम् आरूढो मेरुशृङ्गम् इवाम्बुदः । पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ 5 ॥

श्लोक 4.30.6

काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः &अम्प्; अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ 6 ॥

श्लोक 4.30.7

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाद्यः । बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः ॥ 7 ॥

श्लोक 4.30.8

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः । सौहार्देनापृथग्धर्मास् तुष्टो ऽहं सौहृदेन वः ॥ 8 ॥

श्लोक 4.30.9

यो ऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः । तस्य भ्रातृष्व् आत्मसाम्यं तथा भूतेषु सौहृदम् ॥ 9 ॥

श्लोक 4.30.10

ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः । स्तुवन्त्य् अहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ 10 ॥

श्लोक 4.30.11

यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः । अथो व उशती कीर्तिर् लोकान् अनु भविष्यति ॥ 11 ॥

श्लोक 4.30.12

भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः । य एताम् आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ 12 ॥

श्लोक 4.30.13

कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना । तां चापविद्धां जगृहुर् भूरुहा नृपनन्दनाः ॥ 13 ॥

श्लोक 4.30.14

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वितः ॥ 14 ॥

श्लोक 4.30.15

प्रजाविसर्ग आदिष्टाः पित्रा माम् अनुवर्तता । तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् ॥ 15 ॥

श्लोक 4.30.16

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा । अपृथग्धर्मशीलेयं भूयात् पत्न्य् अर्पिताशया ॥ 16 ॥

श्लोक 4.30.17

दिव्यवर्षसहस्राणां सहस्रम् अहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम ॥ 17 ॥

श्लोक 4.30.18

अथ मय्य् अनपायिन्या भक्त्या पक्वगुणाशयाः । उपयास्यथ मद्धाम निर्विद्य निरयाद् अतः ॥ 18 ॥

श्लोक 4.30.19

गृहेष्व् आविशतां चापि पुंसां कुशलकर्मणाम् । मद्वार्तायातयामानां न बन्धाय गृहा मताः ॥ 19 ॥

श्लोक 4.30.20

नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्मवादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ 20 ॥

श्लोक 4.30.21

एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः । तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ 21 ॥

श्लोक 4.30.22

नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय । मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैर् अगताध्वने नमः ॥ 22 ॥

श्लोक 4.30.23

शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्य् अपार्थं विलसद्द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ 23 ॥

श्लोक 4.30.24

नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ 24 ॥

श्लोक 4.30.25

नमः कमलनाभाय नमः कमलमालिने । नमः कमलपादाय नमस् ते कमलेक्षण ॥ 25 ॥

श्लोक 4.30.26

नमः कमलकिञ्जल्कपिशङ्गामलवाससे । सर्वभूतनिवासाय नमो ऽयुङ्क्ष्महि साक्षिणे ॥ 26 ॥

श्लोक 4.30.27

रूपं भगवता त्व् एतद् अशेषक्लेशसङ्क्षयम् । आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् ॥ 27 ॥

श्लोक 4.30.28

एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः । यद् अनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ 28 ॥

श्लोक 4.30.29

येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् । अन्तर्हितो ऽन्तर्हृदये कस्मान् नो वेद नाशिषः ॥ 29 ॥

श्लोक 4.30.30

असाव् एव वरो ऽस्माकम् ईप्सितो जगतः पते । प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः ॥ 30 ॥

श्लोक 4.30.31

वरं वृणीमहे ऽथापि नाथ त्वत् परतः परात् । न ह्य् अन्तस् त्वद्विभूतीनां सो ऽनन्त इति गीयसे ॥ 31 ॥

श्लोक 4.30.32

पारिजाते ऽञ्जसा लब्धे सारङ्गो ऽन्यन् न सेवते । त्वद्अङ्घ्रिमूलम् आसाद्य साक्षात् किं किं वृणीमहि ॥ 32 ॥

श्लोक 4.30.33

यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ 33 ॥

श्लोक 4.30.34

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः ॥ 34 ॥

श्लोक 4.30.35

यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ 35 ॥

श्लोक 4.30.36

यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ 36 ॥

श्लोक 4.30.37

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ 37 ॥

श्लोक 4.30.38

वयं तु साक्षाद् भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म ॥ 38 ॥

श्लोक 4.30.39

यन् नः स्वधीतं गुरवः प्रसादिता विप्राश् च वृद्धाश् च सद्आनुवृत्त्या । आर्या नताः सुहृदो भ्रातरश् च सर्वाणि भूतान्य् अनसूययैव ॥ 39 ॥

श्लोक 4.30.40

यन् नः सुतप्तं तप एतद् ईश निरन्धसां कालम् अदभ्रम् अप्सु । सर्वं तद् एतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ 40 ॥

श्लोक 4.30.41

मनुः स्वयम्भूर् भगवान् भवश् च ये ऽन्ये तपोज्ञानविशुद्धसत्त्वाः । अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्य् अथो त्वात्मसमं गृणीमः ॥ 41 ॥

श्लोक 4.30.42

नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ 42 ॥

श्लोक 4.30.43

इति प्रचेतोभिर् अभिष्टुतो हरिः प्रीतस् तथेत्य् आह शरण्यवत्सलः । अनिच्छतां यानम् अतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः ॥ 43 ॥

श्लोक 4.30.44

अथ निर्याय सलिलात् प्रचेतस उदन्वतः । वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ 44 ॥

श्लोक 4.30.45

ततो ऽग्निमारुतौ राजन्न् अमुञ्चन् मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ 45 ॥

श्लोक 4.30.46

भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः ॥ 46 ॥

श्लोक 4.30.47

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ 47 ॥

श्लोक 4.30.48

ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे । यस्यां महद्अवज्ञानाद् अजन्य् अजनयोनिजः ॥ 48 ॥

श्लोक 4.30.49

चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ 49 ॥

श्लोक 4.30.50

यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् ॥ 50 ॥

श्लोक 4.30.51

तं प्रजासर्गरक्षायाम् अनादिर् अभिषिच्य च । युयोज युयुजे ऽन्यांश् च स वै सर्वप्रजापतीन् ॥ 51 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ