मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 5

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.5.1

भवो भवान्या निधनं प्रजापतेर् असत्कृताया अवगम्य नारदात् । स्वपार्षदसैन्यं च तद्अध्वरर्भुभिर् विद्रावितं क्रोधम् अपारम् आदधे ॥ 1 ॥

श्लोक 4.5.2

क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिर् जटां तडिद्वह्निसटोग्ररोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ 2 ॥

श्लोक 4.5.3

ततो ऽतिकायस् तनुवा स्पृशन् दिवं सहस्रबाहुर् घनरुक् त्रिसूर्यदृक् । करालदंष्ट्रो ज्वलद्अग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥ 3 ॥

श्लोक 4.5.4

तं किं करोमीति गृणन्तम् आह बद्धाञ्जलिं भगवान् भूतनाथः । दक्षं सयज्ञं जहि मद्भटानां त्वम् अग्रणी रुद्र भटांशको मे ॥ 4 ॥

श्लोक 4.5.5

आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् । मेनेतदात्मानम् असङ्गरंहसा महीयसां तात सहः सहिष्णुम् ॥ 5 ॥

श्लोक 4.5.6

अन्वीयमानः स तु रुद्रपार्षदैर् भृशं नदद्भिर् व्यनदत् सुभैरवम् । उद्यम्य शूलं जगद्अन्तकान्तकं सम्प्राद्रवद् घोषणभूषणाङ्घ्रिः ॥ 6 ॥

श्लोक 4.5.7

अथर्त्विजो यजमानः सदस्याः ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् । तमः किम् एतत् कुत एतद् रजो ऽभूद् इति द्विजा द्विजपत्न्यश् च दध्युः ॥ 7 ॥

श्लोक 4.5.8

वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर् जीवति होग्रदण्डः । गावो न काल्यन्त इदं कुतो रजो लोको ऽधुना किं प्रलयाय कल्पते ॥ 8 ॥

श्लोक 4.5.9

प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर् विपाको वृजिनस्यैव तस्य । यत् पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीम् अवदध्याव् अनागाम् ॥ 9 ॥

श्लोक 4.5.10

यस् त्व् अन्तकाले व्युप्तजटाकलापः स्वशूलसूच्य्अर्पितदिग्गजेन्द्रः । वितत्य नृत्यत्य् उदितास्त्रदोर्ध्वजान् उच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ 10 ॥

श्लोक 4.5.11

अमर्षयित्वा तम् असह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या । करालदंष्ट्राभिर् उदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ 11 ॥

श्लोक 4.5.12

बह्व् एवम् उद्विग्नदृशोच्यमाने जनेन दक्षस्य मुहुर् महात्मनः । उत्पेतुर् उत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ 12 ॥

श्लोक 4.5.13

तावत् स रुद्रानुचरैर् महामखो नानायुधैर् वामनकैर् उदायुधैः । पिङ्गैः पिशङ्गैर् मकरोदराननैः पर्याद्रवद्भिर् विदुरान्वरुध्यत ॥ 13 ॥

श्लोक 4.5.14

केचिद् बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे । सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ 14 ॥

श्लोक 4.5.15

रुरुजुर् यज्ञपात्राणि तथैके ऽग्नीन् अनाशयन् । कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदिमेखलाः ॥ 15 ॥

श्लोक 4.5.16

अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् । अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् ॥ 16 ॥

श्लोक 4.5.17

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरो ऽग्रहीत् ॥ 17 ॥

श्लोक 4.5.18

सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः । तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् ॥ 18 ॥

श्लोक 4.5.19

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः । भृगोर् लुलुञ्चे सदसि यो ऽहसच् छ्मश्रु दर्शयन् ॥ 19 ॥

श्लोक 4.5.20

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदस्थो ऽक्ष्णा यः शपन्तम् असूसुचत् ॥ 20 ॥

श्लोक 4.5.21

पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि यो ऽहसद् दर्शयन् दतः ॥ 21 ॥

श्लोक 4.5.22

आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा ॥ 22 ॥

श्लोक 4.5.23

शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्नत्वचं हरः । विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् ॥ 23 ॥

श्लोक 4.5.24

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे । यजमानपशोः कस्य कायात् तेनाहरच् छिरः ॥ 24 ॥

श्लोक 4.5.25

साधुवादस् तदा तेषां कर्म तत् तस्य पश्यताम् । भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ 25 ॥

श्लोक 4.5.26

जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः । तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ 26 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ