श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 6
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.6.1
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः । शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥ 1 ॥
श्लोक 4.6.2
सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ 2 ॥
श्लोक 4.6.3
उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः । नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः ॥ 3 ॥
श्लोक 4.6.4
तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् ॥ 4 ॥
श्लोक 4.6.5
अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः । प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ 5 ॥
श्लोक 4.6.6
आशासाना जीवितम् अध्वरस्य लोकः सपालः कुपिते न यस्मिन् । तम् आशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ 6 ॥
श्लोक 4.6.7
नाहं न यज्ञो न च यूयम् अन्ये ये देहभाजो मुनयश् च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर् वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ 7 ॥
श्लोक 4.6.8
स इत्थम् आदिश्य सुरान् अजस् तु तैः समन्वितः पितृभिः सप्रजेशैः । ययौ स्वधिष्ण्यान् निलयं पुरद्विषः कैलासम् अद्रिप्रवरं प्रियं प्रभोः ॥ 8 ॥
श्लोक 4.6.9
जन्मौषधितपोमन्त्रयोगसिद्धैर् नरेतरैः । जुष्टं किन्नरगन्धर्वैर् अप्सरोभिर् वृतं सदा ॥ 9 ॥
श्लोक 4.6.10
नानामणिमयैः शृङ्गैर् नानाधातुविचित्रितैः । नानाद्रुमलतागुल्मैर् नानामृगगणावृतैः ॥ 10 ॥
श्लोक 4.6.11
नानामलप्रस्रवणैर् नानाकन्दरसानुभिः । रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ 11 ॥
श्लोक 4.6.12
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् । प्लावितै रक्तकण्ठानां कूजितैश् च पतत्त्रिणाम् ॥ 12 ॥
श्लोक 4.6.13
आह्वयन्तम् इवोद्धस्तैर् द्विजान् कामदुघैर् द्रुमैः । व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः ॥ 13 ॥
श्लोक 4.6.14
मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् । तमालैः शालतालैश् च कोविदारासनार्जुनैः ॥ 14 ॥
श्लोक 4.6.15
चूतैः कदम्बैर् नीपैश् च नागपुन्नागचम्पकैः । पाटलाशोकबकुलैः कुन्दैः कुरबकैर् अपि ॥ 15 ॥
श्लोक 4.6.16
स्वर्णार्णशतपत्रैश् च वररेणुकजातिभिः । कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् ॥ 16 ॥
श्लोक 4.6.17
पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः । भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः ॥ 17 ॥
श्लोक 4.6.18
खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः । द्रुमजातिभिर् अन्यैश् च राजितं वेणुकीचकैः ॥ 18 ॥
श्लोक 4.6.19
कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः । नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ 19 ॥
श्लोक 4.6.20
मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्षशल्यकैः । गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः ॥ 20 ॥
श्लोक 4.6.21
कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृकनाभिभिः । कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ 21 ॥
श्लोक 4.6.22
पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया । विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ 22 ॥
श्लोक 4.6.23
ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ 23 ॥
श्लोक 4.6.24
नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपादपदाम्भोजरजसातीव पावने ॥ 24 ॥
श्लोक 4.6.25
ययोः सुरस्त्रियः क्षत्तर् अवरुह्य स्वधिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ 25 ॥
श्लोक 4.6.26
ययोस् तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम् । वितृषो ऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः ॥ 26 ॥
श्लोक 4.6.27
तारहेममहारत्नविमानशतसङ्कुलाम् । जुष्टां पुण्यजनस्त्रीभिर् यथा खं सतडिद्घनम् ॥ 27 ॥
श्लोक 4.6.28
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् । द्रुमैः कामदुघैर् हृद्यं चित्रमाल्यफलच्छदैः ॥ 28 ॥
श्लोक 4.6.29
रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् । कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ 29 ॥
श्लोक 4.6.30
वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना । अधि पुण्यजनस्त्रीणां मुहुर् उन्मथयन् मनः ॥ 30 ॥
श्लोक 4.6.31
वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः । प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् ॥ 31 ॥
श्लोक 4.6.32
स योजनशतोत्सेधः पादोनविटपायतः । पर्यक्कृताचलच्छायो निर्नीडस् तापवर्जितः ॥ 32 ॥
श्लोक 4.6.33
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् ॥ 33 ॥
श्लोक 4.6.34
सनन्दनाद्यैर् महासिद्धैः शान्तैः संशान्तविग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ 34 ॥
श्लोक 4.6.35
विद्यातपोयोगपथम् आस्थितं तम् अधीश्वरम् । चरन्तं विश्वसुहृदं वात्सल्याल् लोकमङ्गलम् ॥ 35 ॥
श्लोक 4.6.36
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् । अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ 36 ॥
श्लोक 4.6.37
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ 37 ॥
श्लोक 4.6.38
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुं प्रकोष्ठे ऽक्षमालाम् आसीनं तर्कमुद्रया ॥ 38 ॥
श्लोक 4.6.39
तं ब्रह्मनिर्वाणसमाधिम् आश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् । सलोकपाला मुनयो मनूनाम् आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ 39 ॥
श्लोक 4.6.40
स तूपलभ्यागतम् आत्मयोनिं सुरासुरेशैर् अभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दनम् अर्हत्तमः कस्य यथैव विष्णुः ॥ 40 ॥
श्लोक 4.6.41
तथापरे सिद्धगणा महर्षिभिर् ये वै समन्ताद् अनु नीललोहितम् । नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्न् इवात्मभूः ॥ 41 ॥
श्लोक 4.6.42
आने त्वाम् ईशं विश्वस्य जगतो योनिबीजयोः । शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् ॥ 42 ॥
श्लोक 4.6.43
त्वम् एव भगवन्न् एतच् छिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्णपटो यथा ॥ 43 ॥
श्लोक 4.6.44
त्वम् एव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोके ऽवसिताश् च सेतवो यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ 44 ॥
श्लोक 4.6.45
त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्वलोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रम् उल्बणं विपर्ययः केन तद् एव कस्यचित् ॥ 45 ॥
श्लोक 4.6.46
न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्व् अभिपश्यतां तव । भूतानि चात्मन्य् अपृथग्दिदृक्षतां प्रायेण रोषो ऽभिभवेद् यथा पशुम् ॥ 46 ॥
श्लोक 4.6.47
पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजो ऽनिशम् । परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास् तान् मावधीद् दैववधान् भवद्विधः ॥ 47 ॥
श्लोक 4.6.48
यस्मिन् यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैवबलात् कृते क्रमम् ॥ 48 ॥
श्लोक 4.6.49
भवांस् तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक् । तया हतात्मस्व् अनुकर्मचेतःस्व् अनुग्रहं कर्तुम् इहार्हसि प्रभो ॥ 49 ॥
श्लोक 4.6.50
कुर्व् अध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ 50 ॥
श्लोक 4.6.51
जीवताद् यजमानो ऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् ॥ 51 ॥
श्लोक 4.6.52
देवानां भग्नगात्राणाम् ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानाम् आशु मन्यो ऽस्त्व् अनातुरम् ॥ 52 ॥
श्लोक 4.6.53
एष ते रुद्र भागो ऽस्तु यद्उच्छिष्टो ऽध्वरस्य वै । यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञहन् ॥ 53 ॥