श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 1
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.1.1
प्रियव्रतो भागवताअत्मारामः कथं मुने । गृहे ऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ 1 ॥
श्लोक 5.1.2
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ । गृहेष्व् अभिनिवेशो ऽयं पुंसां भवितुम् अर्हति ॥ 2 ॥
श्लोक 5.1.3
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥ 3 ॥
श्लोक 5.1.4
संशयो ऽयं महान् ब्रह्मन् दारागारसुतादिषु । सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ 4 ॥
श्लोक 5.1.5
बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिद् अन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ 5 ॥
श्लोक 5.1.6
यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणो ऽवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्अधिकरण आत्मनो ऽन्यस्माद् असतो ऽपि पराभवम् अन्वीक्षमाणः ॥ 6 ॥
श्लोक 5.1.7
अथ ह भगवान् आदिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगद्अभिप्राय आत्मयोनिर् अखिलनिगमनिजगणपरिवेष्टितः स्वभवनाद् अवततार ॥ 7 ॥
श्लोक 5.1.8
स तत्र तत्र गगनतल उडुपतिर् इव विमानावलिभिर् अनुपथम् अमरपरिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैर् उपगीयमानो गन्धमादनद्रोणीम् अवभासयन्न् उपससर्प ॥ 8 ॥
श्लोक 5.1.9
तत्र ह वा एनं देवर्षिर् हंसयानेन पितरं भगवन्तं हिरण्यगर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्याम् अवहिताञ्जलिर् उपतस्थे ॥ 9 ॥
श्लोक 5.1.10
भगवान् अपि भारत तद्उपनीतार्हणः सूक्तवाकेनातितराम् उदितगुणगणावतारसुजयः प्रियव्रतम् आदिपुरुषस् तं सदयहासावलोक इति होवाच ॥ 10 ॥
श्लोक 5.1.11
निबोध तातेदम् ऋतं ब्रवीमि मासूयितुं देवम् अर्हस्य् अप्रमेयम् । वयं भवस् ते तत एष महर्षिर् वहाम सर्वे विवशा यस्य दिष्टम् ॥ 11 ॥
श्लोक 5.1.12
न तस्य कश्चित् तपसा विद्यया वा न योगवीर्येण मनीषया वा । नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद् विभूयात् ॥ 12 ॥
श्लोक 5.1.13
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दुःखाय च देहयोगम् अव्यक्तदिष्टं जनताङ्ग धत्ते ॥ 13 ॥
श्लोक 5.1.14
यद्वाचि तन्त्यां गुणकर्मदामभिः सुदुस्तरैर् वत्स वयं सुयोजिताः । सर्वे वहामो बलिम् ईश्वराय प्रोता नसीव द्विपदे चतुष्पदः ॥ 14 ॥
श्लोक 5.1.15
ईशाभिसृष्टं ह्य् अवरुन्ध्महे ऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् । आस्थाय तत् तद् यद् अयुङ्क्त नाथश् चक्षुष्मतान्धा इव नीयमानाः ॥ 15 ॥
श्लोक 5.1.16
मुक्तो ऽपि तावद् बिभृयात् स्वदेहम् आरब्धम् अश्नन्न् अभिमानशून्यः । यथानुभूतं प्रतियातनिद्रः किं त्व् अन्यदेहाय गुणान् न वृङ्क्ते ॥ 16 ॥
श्लोक 5.1.17
भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सहषट्सपत्नः । जितेन्द्रियस्यात्मरतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् ॥ 17 ॥
श्लोक 5.1.18
यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् ॥ 18 ॥
श्लोक 5.1.19
त्वं त्व् अब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट्सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व ॥ 19 ॥
श्लोक 5.1.20
इति समभिहितो महाभागवतो भगवतस् त्रिभुवनगुरोर् अनुशासनम् आत्मनो लघुतयावनतशिरोधरो बाढम् इति सबहुमानम् उवाह ॥ 20 ॥
श्लोक 5.1.21
भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रतनारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत् ॥ 21 ॥
श्लोक 5.1.22
मनुर् अपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजम् अखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयम् अतिविषमविषयविषजलाशयाशाया उपरराम ॥ 22 ॥
श्लोक 5.1.23
इति ह वाव स जगतीपतिर् ईश्वरेच्छयाधिनिवेशितकर्माधिकारो ऽखिलजगद्बन्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयो ऽवदातो ऽपि मानवर्धनो महतां महीतलम् अनुशशास ॥ 23 ॥
श्लोक 5.1.24
अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्मसमानशीलगुणकर्मरूपवीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम ॥ 24 ॥
श्लोक 5.1.25
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥ 25 ॥
श्लोक 5.1.26
एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्वरेतसस् त आत्मविद्यायाम् अर्भभावाद् आरभ्य कृतपरिचयाः पारमहंस्यम् एवाश्रमम् अभजन् ॥ 26 ॥
श्लोक 5.1.27
तस्मिन्न् उ ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्मभूते प्रत्यग्आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः ॥ 27 ॥
श्लोक 5.1.28
अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः ॥ 28 ॥
श्लोक 5.1.29
एवम् उपशमायनेषु स्वतनयेष्व् अथ जगतीपतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्य्आदिभिः पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ 29 ॥
श्लोक 5.1.30
यावद् अवभासयति सुरगिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधातलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्उपासनोपचितातिपुरुषप्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्तकृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः ॥ 30 ॥
श्लोक 5.1.31
ये वा उ ह तद्रथचरणनेमिकृतपरिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ 31 ॥
श्लोक 5.1.32
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः समन्तत उपकॢप्ताः ॥ 32 ॥
श्लोक 5.1.33
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्यसुता ॥ 33 ॥
श्लोक 5.1.34
नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तद्अङ्घ्रिरजसा जितषड्गुणानाम् । चित्रं विदूरविगतः सकृद् आददीत यन्नामधेयम् अधुना स जहाति बन्धम् ॥ 34 ॥
श्लोक 5.1.35
स एवम् अपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्मनिर्वेद इदम् आह ॥ 35 ॥
श्लोक 5.1.36
अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितो ऽहम् इन्द्रियैर् अविद्यारचितविषमविषयान्धकूपे तद् अलम् अलम् अमुष्या वनिताया विनोदमृगं मां धिग् धिग् इति गर्हयां चकार ॥ 36 ॥
श्लोक 5.1.37
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकम् इव सह महाविभूतिम् अपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार ॥ 37 ॥
श्लोक 5.1.38
प्रियव्रतकृतं कर्म को नु कुर्याद् विनेश्वरम् । यो नेमिनिम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् ॥ 38 ॥
श्लोक 5.1.39
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ 39 ॥
श्लोक 5.1.40
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् । यश् चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ 40 ॥