श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 2
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.2.1
एवं पितरि सम्प्रवृत्ते तद्अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत् ॥ 1 ॥
श्लोक 5.2.2
स च कदाचित् पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिम् आभृतपरिचर्योपकरण आत्म इकाग्र्येण तपस्व्य् आराधयां बभूव ॥ 2 ॥
श्लोक 5.2.3
तद् उपलभ्य भगवान् आदिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस ॥ 3 ॥
श्लोक 5.2.4
सा च तद्आश्रमोपवनम् अतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर् विचित्रम् उपकूजितामलजलाशयकमलाकरम् उपबभ्राम ॥ 4 ॥
श्लोक 5.2.5
तस्याः सुललितगमनपदविन्यासगतिविलासायाश् चानुपदं खणखणायमानरुचिरचरणाभरणस्वनम् उपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलम् ईषद् विकचय्य व्यचष्ट ॥ 5 ॥
श्लोक 5.2.6
ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर् गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तद्अवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशम् उपनीतो जडवद् इति होवाच ॥ 6 ॥
श्लोक 5.2.7
का त्वं चिकीर्षसि च किं मुनिवर्य शैले मायासि कापि भगवत्परदेवतायाः । विज्ये बिभर्षि धनुषी सुहृद्आत्मनो ऽर्थे किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ 7 ॥
श्लोक 5.2.8
बाणाव् इमौ भगवतः शतपत्रपत्रौ शान्ताव् अपुङ्खरुचिराव् अतितिग्मदन्तौ । कस्मै युयुङ्क्षसि वने विचरन् न विद्मः क्षेमाय नो जडधियां तव विक्रमो ऽस्तु ॥ 8 ॥
श्लोक 5.2.9
शिष्या इमे भगवतः परितः पठन्ति गायन्ति साम सरहस्यम् अजस्रम् ईशम् । युष्मच्छिखाविलुलिताः सुमनो ऽभिवृष्टीः सर्वे भजन्त्य् ऋषिगणा इव वेदशाखाः ॥ 9 ॥
श्लोक 5.2.10
वाचं परं चरणपञ्जरतित्तिरीणां ब्रह्मन्न् अरूपमुखरां शृणवाम तुभ्यम् । लब्धा कदम्बरुचिर् अङ्कविटङ्कबिम्बे यस्याम् अलातपरिधिः क्व च वल्कलं ते ॥ 10 ॥
श्लोक 5.2.11
किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते मध्ये कृशो वहसि यत्र दृशिः श्रिता मे । पङ्को ऽरुणः सुरभिर् आत्मविषाण ईदृग् येनाश्रमं सुभग मे सुरभीकरोषि ॥ 11 ॥
श्लोक 5.2.12
लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ । अस्मद्विधस्य मनउन्नयनौ बिभर्ति बह्व् अद्भुतं सरसराससुधादि वक्त्रे ॥ 12 ॥
श्लोक 5.2.13
का वात्मवृत्तिर् अदनाद् धविर् अङ्ग वाति विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ । उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर् आसन्नभृङ्गनिकरं सर इन् मुखं ते ॥ 13 ॥
श्लोक 5.2.14
यो ऽसौ त्वया करसरोजहतः पतङ्गो दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे । मुक्तं न ते स्मरसि वक्रजटावरूथं कष्टो ऽनिलो हरति लम्पट एष नीवीम् ॥ 14 ॥
श्लोक 5.2.15
रूपं तपोधन तपश् चरतां तपोघ्नं ह्य् एतत् तु केन तपसा भवतोपलब्धम् । चर्तुं तपो ऽर्हसि मया सह मित्र मह्यं किं वा प्रसीदति स वै भवभावनो मे ॥ 15 ॥
श्लोक 5.2.16
न त्वां त्यजामि दयितं द्विजदेवदत्तं यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् । मां चारुशृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ 16 ॥
श्लोक 5.2.17
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिर् अधिसभाजयाम् आस ॥ 17 ॥
श्लोक 5.2.18
सा च ततस् तस्य वीरयूथपतेर् बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास् तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥ 18 ॥
श्लोक 5.2.19
तस्याम् उ ह वा आत्मजान् स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान् नव पुत्रान् अजनयत् ॥ 19 ॥
श्लोक 5.2.20
सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे ॥ 20 ॥
श्लोक 5.2.21
आग्नीध्रसुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ 21 ॥
श्लोक 5.2.22
आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधिमन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते ॥ 22 ॥
श्लोक 5.2.23
सम्परेते पितरि नव भ्रातरो मेरुदुहित्र् मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन् ॥ 23 ॥