श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 26
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 26 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.26.1
महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति ॥ 1 ॥
श्लोक 5.26.2
त्रिगुणत्वात् कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ 2 ॥
श्लोक 5.26.2a
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्मफलं विसदृशं भवति या ह्य् अनाद्य्अविद्यया कृतकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः ॥ 2a ॥
श्लोक 5.26.3
नरका नाम भगवन् किं देशविशेषा अथवा बहिस् त्रिलोक्या आहोस्विद् अन्तराल इति ॥ 3 ॥
श्लोक 5.26.4
अन्तराल एव त्रिजगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ 4 ॥
श्लोक 5.26.5
यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर् जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषम् एवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति ॥ 5 ॥
श्लोक 5.26.6
तत्र हैके नरकान् एकविंशतिं गणयन्ति अथ तांस् ते राजन् नामरूपलक्षणतो ऽनुक्रमिष्यामस् तामिस्रो ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशूको ऽवटनिरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टाविंशतिर् नरका विविधयातनाभूमयः ॥ 6 ॥
श्लोक 5.26.7
तत्र यस् तु परवित्तापत्यकलत्राण्य् अपहरति स हि कालपाशबद्धो यमपुरुषैर् अतिभयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्रप्राये ॥ 7 ॥
श्लोक 5.26.8
एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर् नष्टदृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमानमूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति ॥ 8 ॥
श्लोक 5.26.9
यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूतद्रोहेण केवलं स्वकुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्अशुभेन रौरवे निपतति ॥ 9 ॥
श्लोक 5.26.10
ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यमयातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अतिक्रूरसत्त्वस्यापदेशः ॥ 10 ॥
श्लोक 5.26.11
एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ 11 ॥
श्लोक 5.26.12
यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ 12 ॥
श्लोक 5.26.13
यस् त्व् इह ब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्य्अधस्ताद् अग्न्य्अर्काभ्याम् अतितप्यमाने ऽभिनिवेशितः क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर आस्ते शेते चेष्टते ऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद् वर्षसहस्राणि ॥ 13 ॥
श्लोक 5.26.14
यस् त्व् इह वै निजवेदपथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् तालवनासिपत्रैश् छिद्यमानसर्वाङ्गो हा हतो ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ 14 ॥
श्लोक 5.26.15
यस् त्व् इह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान् नरके ऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥ 15 ॥
श्लोक 5.26.16
यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पितवृत्तीनाम् अविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर् विविक्तपरव्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशुमृगपक्षिसरीसृपैर् मशकयूकामत्कुणमक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतो ऽभिद्रुह्यमाणस् तमसि विहतनिद्रानिर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ 16 ॥
श्लोक 5.26.17
यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमिभोजनो यावत् तद् अप्रत्ताप्रहूतादो ऽनिर्वेशम् आत्मानं यातयते ॥ 17 ॥
श्लोक 5.26.18
यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यमपुरुषा अयस्मयैर् अग्निपिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति ॥ 18 ॥
श्लोक 5.26.19
यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया ताडयन्तस् तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ 19 ॥
श्लोक 5.26.20
यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीम् आरोप्य निष्कर्षन्ति ॥ 20 ॥
श्लोक 5.26.21
ये त्व् इह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास् तस्यां निरयपरिखाभूतायां नद्यां यादोगणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्मपाकम् अनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्याम् उपतप्यन्ते ॥ 21 ॥
श्लोक 5.26.22
ये त्व् इह वै वृषलीपतयो नष्टशौचाचारनियमास् त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति ॥ 22 ॥
श्लोक 5.26.23
ये त्व् इह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्यभूतान् यमपुरुषा इषुभिर् विध्यन्ति ॥ 23 ॥
श्लोक 5.26.24
ये त्व् इह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो यातयित्वा विशसन्ति ॥ 24 ॥
श्लोक 5.26.25
यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काममोहितस् तं पापकृतम् अमुत्र रेतःकुल्यायां पातयित्वा रेतः सम्पाययन्ति ॥ 25 ॥
श्लोक 5.26.26
ये त्व् इह वै दस्यवो ऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश् चापि हि परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश् च सरभसं खादन्ति ॥ 26 ॥
श्लोक 5.26.27
यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके ऽवीचिमत्य् अधःशिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्मपृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनर् आरोपितो निपतति ॥ 27 ॥
श्लोक 5.26.28
यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोमपीथस् तत्कलत्रं वा सुरां व्रतस्थो ऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ 28 ॥
श्लोक 5.26.29
अथ च यस् त्व् इह वा आत्मसम्भावनेन स्वयम् अधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये ऽवाक्शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते ॥ 29 ॥
श्लोक 5.26.30
ये त्व् इह वै पुरुषाः पुरुषमेधेन यजन्ते याश् च स्त्रियो नृपशून् खादन्ति तांश् च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ 30 ॥
श्लोक 5.26.31
ये त्व् इह वा अनागसो ऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति ते ऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभिश् चेतस् ततस् तिग्मतुण्डैर् आहन्यमाना आत्मशमलं स्मरन्ति ॥ 31 ॥
श्लोक 5.26.32
ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास् ते ऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ 32 ॥
श्लोक 5.26.33
ये त्व् इह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ 33 ॥
श्लोक 5.26.34
यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृहपतिर् असकृद् उपगतमन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेर् अक्षिणी वज्रतुण्डा गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलाद् उत्पाटयन्ति ॥ 34 ॥
श्लोक 5.26.35
यस् त्व् इह वा आढ्याभिमतिर् अहङ्कृतिस् तिर्यक्प्रेक्षणः सर्वतो ऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्उत्पादनोत्कर्षणसंरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतो ऽङ्गेषु सूत्रैः परिवयन्ति ॥ 35 ॥
श्लोक 5.26.36
एवंविधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ 36 ॥
श्लोक 5.26.37
निवृत्तिलक्षणमार्ग आदाव् एव व्याख्यातः एतावान् एवाण्डकोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महापुरुषस्य स्थविष्ठं रूपम् आत्ममायागुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ऽग्राह्यम् अपि श्रद्धाभक्तिविशुद्धबुद्धिर् वेद ॥ 37 ॥
श्लोक 5.26.38
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति ॥ 38 ॥
श्लोक 5.26.39
भूद्वीपवर्षसरिद्अद्रिनभःसमुद्रपातालदिङ्नरकभागणलोकसंस्था &अम्प्; गीता मया तव नृपाद्भुतम् ईश्वरस्य स्थूलं वपुः सकलजीवनिकायधाम ॥ 39 ॥