मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 25

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 25 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.25.1

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमानलक्षणं यं सङ्कर्षणम् इत्य् आचक्षते ॥ 1 ॥

श्लोक 5.25.2

यस्येदं क्षितिमण्डलं भगवतो ऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ 2 ॥

श्लोक 5.25.3

यस्य ह वा इदं कालेनोपसञ्जिहीर्षतो ऽमर्षविरचितरुचिरभ्रमद्भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस् त्र्य्अक्षस् त्रिशिखं शूलम् उत्तम्भयन्न् उदतिष्ठत् ॥ 3 ॥

श्लोक 5.25.4

यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्व् अहिपतयः सह सात्वतर्षभैर् एकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्य् अतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥ 4 ॥

श्लोक 5.25.5

यस्यैव हि नागराजकुमार्य आशिष आशासानाश् चार्व्अङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्व् अगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास् तद्अभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास् तद्अनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ 5 ॥

श्लोक 5.25.6

स एव भगवान् अनन्तो ऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ 6 ॥

श्लोक 5.25.7

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैर् अनवरतमदमुदितविकृतविह्वललोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीन् अपरिम्लानरागनवतुलसिकामोदमध्व्आसवेन माद्यन् मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान् महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम् उदारलीलो बिभर्ति ॥ 7 ॥

श्लोक 5.25.8

य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादिकालकर्मवासनाग्रथितम् अविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयम् अन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस ॥ 8 ॥

श्लोक 5.25.9

उत्पत्तिस्थितिलयहेतवो ऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यद्ईक्षयासन् । यद्रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् नानाधात् कथम् उ ह वेद तस्य वर्त्म ॥ 9 ॥

श्लोक 5.25.10

मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सद्असद् इदं विभाति तत्र । यल्लीलां मृगपतिर् आददे ऽनवद्याम् आदातुं स्वजनमनांस्य् उदारवीर्यः ॥ 10 ॥

श्लोक 5.25.11

यन्नाम श्रुतम् अनुकीर्तयेद् अकस्माद् आर्तो वा यदि पतितः प्रलम्भनाद् वा । हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं कं शेषाद् भगवत आश्रयेन् मुमुक्षुः ॥ 11 ॥

श्लोक 5.25.12

मूर्धन्य् अर्पितम् अणुवत् सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्याद् अनिमितविक्रमस्य भूम्नः को वीर्याण्य् अधि गणयेत् सहस्रजिह्वः ॥ 12 ॥

श्लोक 5.25.13

एवम्प्रभावो भगवान् अनन्तो दुरन्तवीर्योरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥ 13 ॥

श्लोक 5.25.14

एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः ॥ 14 ॥

श्लोक 5.25.15

एतावतीर् हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति ॥ 15 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ