मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 4

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.4.1

अथ ह तम् उत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनितलसमवनायातितरां जगृधुः ॥ 1 ॥

श्लोक 5.4.2

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ॥ 2 ॥

श्लोक 5.4.3

यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षम् अजनाभं नामाभ्यवर्षत् ॥ 3 ॥

श्लोक 5.4.4

नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः ॥ 4 ॥

श्लोक 5.4.5

विदितानुरागम् आपौरप्रकृति जनपदो राजा नाभिर् आत्मजं समयसेतुरक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्महिमानम् अवाप ॥ 5 ॥

श्लोक 5.4.6

को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् । अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा ॥ 6 ॥

श्लोक 5.4.7

ब्रह्मण्यो ऽन्यः कुतो नाभेर् विप्रा मङ्गलपूजिताः । यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा ॥ 7 ॥

श्लोक 5.4.8

अथ ह भगवान् ऋषभदेवः स्ववर्षं कर्मक्षेत्रम् अनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्रदत्तायाम् उभयलक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्मसमानानां शतं जनयाम् आस ॥ 8 ॥

श्लोक 5.4.9

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति ॥ 9 ॥

श्लोक 5.4.10

तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः ॥ 10 ॥

श्लोक 5.4.11

कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ 11 ॥

श्लोक 5.4.12

इति भागवतधर्मदर्शना नव महाभागवतास् तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः ॥ 12 ॥

श्लोक 5.4.13

यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः ॥ 13 ॥

श्लोक 5.4.14

भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ 14 ॥

श्लोक 5.4.15

यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः ॥ 15 ॥

श्लोक 5.4.16

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शितमार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास ॥ 16 ॥

श्लोक 5.4.17

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शतकृत्व इयाज ॥ 17 ॥

श्लोक 5.4.18

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्य् अविद्यमानम् इवात्मनो ऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भितस्नेहातिशयम् अन्तरेण ॥ 18 ॥

श्लोक 5.4.19

स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच ॥ 19 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ