श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 3
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.3.1
नाभिर् अपत्यकामो ऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषम् अवहितात्मायजत ॥ 1 ॥
श्लोक 5.3.2
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमो ऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनावयवाभिरामम् आविश्चकार ॥ 2 ॥
श्लोक 5.3.3
अथ ह तम् आविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरम् उरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्य्अमृतमणिगदादिभिर् उपलक्षितं स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्य्अङ्गभूषणविभूषितम् ऋत्विक्सदस्यगृहपतयो ऽधना इवोत्तमधनम् उपलभ्य सबहुमानम् अर्हणेनावनतशीर्षाण उपतस्थुः ॥ 3 ॥
श्लोक 5.3.4
अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्उपशिक्षितं को ऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिर् अनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोर् अर्वाक्तनाभिर् नामरूपाकृतिभी रूपनिरूपणम् सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनाद् ऋते ॥ 4 ॥
श्लोक 5.3.5
परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥ 5 ॥
श्लोक 5.3.6
अथानयापि न भवत इज्ययोरुभारभरया समुचितम् अर्थम् इहोपलभामहे ॥ 6 ॥
श्लोक 5.3.7
आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधनमात्रं भवितुम् अर्हति ॥ 7 ॥
श्लोक 5.3.8
तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः ॥ 8 ॥
श्लोक 5.3.9
अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरदर्षभो भवान् निजपुरुषेक्षणविषय आसीत् ॥ 9 ॥
श्लोक 5.3.10
असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनो ऽसि ॥ 10 ॥
श्लोक 5.3.11
अथ कथञ्चित् स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां नः स्मरणाय ज्वरमरणदशायाम् अपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥ 11 ॥
श्लोक 5.3.12
किञ्चायं राजर्षिर् अपत्यकामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थप्रत्ययो धनदम् इवाधनः फलीकरणम् ॥ 12 ॥
श्लोक 5.3.13
को वा इह ते ऽपराजितो ऽपराजितया माययानवसितपदव्यानावृतमतिर् विषयविषरयानावृतप्रकृतिर् अनुपासितमहच्चरणः ॥ 13 ॥
श्लोक 5.3.14
यद् उ ह वाव तव पुनर् अदभ्रकर्तर् इह समाहूतस् तत्रार्थधियां मन्दानां नस् तद् यद् देवहेलनं देवदेवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम् ॥ 14 ॥
श्लोक 5.3.15
इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरणः सदयम् इदम् आह ॥ 15 ॥
श्लोक 5.3.16
अहो बताहम् ऋषयो भवद्भिर् अवितथगीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्मवादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विजदेवकुलम् ॥ 16 ॥
श्लोक 5.3.17
तत आग्नीध्रीये ऽंशकलयावतरिष्याम्य् आत्मतुल्यम् अनुपलभमानः ॥ 17 ॥
श्लोक 5.3.18
इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधायान्तर्दधे भगवान् ॥ 18 ॥