श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 6
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.6.1
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्छयोपगतानि ॥ 1 ॥
श्लोक 5.6.2
सत्यम् उक्तं किन्त्व् इह वा एके न मनसो ऽद्धा विश्रम्भम् अनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ 2 ॥
श्लोक 5.6.3
न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते । यद्विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् ॥ 3 ॥
श्लोक 5.6.4
नित्यं ददाति कामस्य च्छिद्रं तम् अनु ये ऽरयः । योगिनः कृतमैत्रस्य पत्युर् जायेव पुंश्चली ॥ 4 ॥
श्लोक 5.6.5
कामो मन्युर् मदो लोभः शोकमोहभयादयः । कर्मबन्धश् च यन्मूलः स्वीकुर्यात् को नु तद् बुधः ॥ 5 ॥
श्लोक 5.6.6
अथैवम् अखिललोकपालललामो ऽपि विलक्षणैर् जडवद् अवधूतवेषभाषाचरितैर् अविलक्षितभगवत्प्रभावो योगिनां साम्परायविधिम् अनुशिक्षयन् स्वकलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम ॥ 6 ॥
श्लोक 5.6.7
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजो ऽसंवीत एव विचचार ॥ 7 ॥
श्लोक 5.6.8
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस् तद् वनम् आलेलिहानः सह तेन ददाह ॥ 8 ॥
श्लोक 5.6.9
यस्य किलानुचरितम् उपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथम् अकुतोभयम् अपहाय कुपथपाखण्डम् असमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ॥ 9 ॥
श्लोक 5.6.10
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्य् अपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ 10 ॥
श्लोक 5.6.11
ते च ह्य् अर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति ॥ 11 ॥
श्लोक 5.6.12
अयम् अवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ 12 ॥
श्लोक 5.6.13
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् । गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्य् अवतारवन्ति ॥ 13 ॥
श्लोक 5.6.14
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान् पुराणः । कृतावतारः पुरुषः स आद्यश् चचार धर्मं यद् अकर्महेतुम् ॥ 14 ॥
श्लोक 5.6.15
को न्व् अस्य काष्ठाम् अपरो ऽनुगच्छेन् मनोरथेनाप्य् अभवस्य योगी । यो योगमायाः स्पृहयत्य् उदस्ता ह्य् असत्तया येन कृतप्रयत्नाः ॥ 15 ॥
श्लोक 5.6.16
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते ॥ 16 ॥
श्लोक 5.6.17
यस्याम् एव कवय आत्मानम् अविरतं विविधवृजिनसंसारपरितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परमपुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ 17 ॥
श्लोक 5.6.18
राजन् पतिर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम् ॥ 18 ॥
श्लोक 5.6.19
नित्यानुभूतनिजलाभनिवृत्ततृष्णः श्रेयस्य् अतद्रचनया चिरसुप्तबुद्धेः । लोकस्य यः करुणयाभयम् आत्मलोकम् आख्यान् नमो भगवते ऋषभाय तस्मै ॥ 19 ॥