श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 7
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.7.1
भरतस् तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस् तद्अनुशासनपरः पञ्चजनीं विश्वरूपदुहितरम् उपयेमे ॥ 1 ॥
श्लोक 5.7.2
तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुम् इति ॥ 2 ॥
श्लोक 5.7.3
अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति ॥ 3 ॥
श्लोक 5.7.4
स बहुविन् महीपतिः पितृपितामहवद् उरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्मम् अनुवर्तमानः पर्यपालयत् ॥ 4 ॥
श्लोक 5.7.5
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिर् अनुसवनं चातुर्होत्रविधिना ॥ 5 ॥
श्लोक 5.7.6
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्व् अपूर्वं यत् तत् क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणाम् अर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत् ॥ 6 ॥
श्लोक 5.7.7
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिर् उपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमानरयाजायत ॥ 7 ॥
श्लोक 5.7.8
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात् स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥ 8 ॥
श्लोक 5.7.9
यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ 9 ॥
श्लोक 5.7.10
यत्राश्रमपदान्य् उभयतो नाभिभिर् दृषच्चक्रैश् चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ 10 ॥
श्लोक 5.7.11
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिम् अवाप ॥ 11 ॥
श्लोक 5.7.12
तयेत्थम् अविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्य् उद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस् ताम् अपि क्रियमाणां भगवत्सपर्यां न सस्मार ॥ 12 ॥
श्लोक 5.7.13
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्यमण्डले ऽभ्युपतिष्ठन्न् एतद् उ होवाच ॥ 13 ॥
श्लोक 5.7.14
परोरजः सवितुर् जातवेदो देवस्य भर्गो मनसेदं जजान । सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्रिङ्गिराम् इमः ॥ 14 ॥