श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 1
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.1.1
निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ 1 ॥
श्लोक 6.1.2
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । यो ऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ 2 ॥
श्लोक 6.1.3
अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ 3 ॥
श्लोक 6.1.4
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च । द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन् ॥ 4 ॥
श्लोक 6.1.5
धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥ 5 ॥
श्लोक 6.1.6
अधुनेह महाभाग यथैव नरकान् नरः । नानोग्रयातनान् नेयात् तन् मे व्याख्यातुमर्हसि ॥ 6 ॥
श्लोक 6.1.7
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः । ध्रुवं स वै प्रेत्य नरकान् उपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ 7 ॥
श्लोक 6.1.8
तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥ 8 ॥
श्लोक 6.1.9
दृष्टश्रुताभ्यां यत् पापं जानन्नप्य् आत्मनो ऽहितम् । करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ 9 ॥
श्लोक 6.1.10
क्वचिन् निवर्तते ऽभद्रात् क्वचिच् चरति तत् पुनः । प्रायश्चित्तमथो ऽपार्थं मन्ये कुञ्जरशौचवत् ॥ 10 ॥
श्लोक 6.1.11
कर्मणा कर्मनिर्हारो न ह्य् आत्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ 11 ॥
श्लोक 6.1.12
नाश्नतः पथ्यमेवान्नं व्याधयो ऽभिभवन्ति हि । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥ 12 ॥
श्लोक 6.1.13
तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ 13 ॥
श्लोक 6.1.14
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्य् अघं महदपि वेणुगुल्ममिवानलः ॥ 14 ॥
श्लोक 6.1.15
केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ 15 ॥
श्लोक 6.1.16
न तथा ह्य् अघवान् राजन् पूयेत तपाअदिभिः । यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ 16 ॥
श्लोक 6.1.17
सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ 17 ॥
श्लोक 6.1.18
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ 18 ॥
श्लोक 6.1.19
सकृन् मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ 19 ॥
श्लोक 6.1.20
अत्र चोदाहरन्तीममितिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ 20 ॥
श्लोक 6.1.21
कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ 21 ॥
श्लोक 6.1.22
बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः । बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनः ॥ 22 ॥
श्लोक 6.1.23
एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालो ऽत्यगान् महान् राजन्नष्टाशीत्यायुषः समाः ॥ 23 ॥
श्लोक 6.1.24
तस्य प्रवयसः पुत्रा दश तेषां तु यो ऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ 24 ॥
श्लोक 6.1.25
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ 25 ॥
श्लोक 6.1.26
भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः । भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ 26 ॥
श्लोक 6.1.27
स एवं वर्तमानो ऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ 27 ॥
श्लोक 6.1.28
स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् अतिदारुणान् । वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ 28 ॥
श्लोक 6.1.29
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ 29 ॥
श्लोक 6.1.30
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ 30 ॥
श्लोक 6.1.31
विकर्षतो ऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ 31 ॥
श्लोक 6.1.32
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः । के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ 32 ॥
श्लोक 6.1.33
कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ 33 ॥
श्लोक 6.1.34
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ 34 ॥
श्लोक 6.1.35
सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः । धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः ॥ 35 ॥
श्लोक 6.1.36
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा । किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ ॥ 36 ॥
श्लोक 6.1.37
इत्य् उक्ते यमदूतैस्ते वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ 37 ॥
श्लोक 6.1.38
यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच् चाधर्मस्य लक्षणम् ॥ 38 ॥
श्लोक 6.1.39
कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् ॥ 39 ॥
श्लोक 6.1.40
वेदप्रणिहितो धर्मो ह्य् अधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम ॥ 40 ॥
श्लोक 6.1.41
येन स्वधाम्न्य् अमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ 41 ॥
श्लोक 6.1.42
सूर्यो ऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः । कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः ॥ 42 ॥
श्लोक 6.1.43
एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ 43 ॥
श्लोक 6.1.44
सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्गो ऽस्ति देहवान् न ह्य् अकर्मकृत् ॥ 44 ॥
श्लोक 6.1.45
येन यावान् यथाधर्मो धर्मो वेह समीहितः । स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ 45 ॥
श्लोक 6.1.46
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते । भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ 46 ॥
श्लोक 6.1.47
वर्तमानो ऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ 47 ॥
श्लोक 6.1.48
मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसते ऽपूर्वं मनसा भगवान् अजः ॥ 48 ॥
श्लोक 6.1.49
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ 49 ॥
श्लोक 6.1.50
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशो ऽश्नुते ॥ 50 ॥
श्लोक 6.1.51
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् । धत्ते ऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ 51 ॥
श्लोक 6.1.52
देह्य् अज्ञो ऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥ 52 ॥
श्लोक 6.1.53
न हि कश्चित् क्षणमपि जातु तिष्ठत्य् अकर्मकृत् । कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ 53 ॥
श्लोक 6.1.54
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्य् उत । यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ 54 ॥
श्लोक 6.1.55
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः । आसीत् स एव न चिरादीशसङ्गाद्विलीयते ॥ 55 ॥
श्लोक 6.1.56
अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवाङ् मन्त्रविच् छुचिः ॥ 56 ॥
श्लोक 6.1.57
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः । सर्वभूतसुहृत् साधुर्मितवाग् अनसूयकः ॥ 57 ॥
श्लोक 6.1.58
एकदासौ वनं यातः पितृसन्देशकृद्द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ 58 ॥
श्लोक 6.1.59
ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ 59 ॥
श्लोक 6.1.60
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ 60 ॥
श्लोक 6.1.61
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ॥ 61 ॥
श्लोक 6.1.62
स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम् ॥ 62 ॥
श्लोक 6.1.63
तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ 63 ॥
श्लोक 6.1.64
तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ 64 ॥
श्लोक 6.1.65
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः ॥ 65 ॥
श्लोक 6.1.66
यतस्ततश्चोपनिन्ये न्यायतो ऽन्यायतो धनम् । बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ 66 ॥
श्लोक 6.1.67
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्य् अतिगर्हितः । अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ 67 ॥
श्लोक 6.1.68
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् । नेष्यामो ऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ 68 ॥