श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 2
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.2.1
एवं ते भगवद्दूता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ 1 ॥
श्लोक 6.2.2
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ 2 ॥
श्लोक 6.2.3
प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ 3 ॥
श्लोक 6.2.4
यद्यदाचरति श्रेयान् इतरस्तत् तदीहते । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 4 ॥
श्लोक 6.2.5
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ 5 ॥
श्लोक 6.2.6
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति ॥ 6 ॥
श्लोक 6.2.7
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ 7 ॥
श्लोक 6.2.8
एतेनैव ह्य् अघोनो ऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ 8 ॥
श्लोक 6.2.9
स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनो ऽपरे ॥ 9 ॥
श्लोक 6.2.10
सर्वेषामप्य् अघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ 10 ॥
श्लोक 6.2.11
न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् ॥ 11 ॥
श्लोक 6.2.12
नैकान्तिकं तद्धि कृते ऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे । तत् कर्मनिर्हारमभीप्सतां हरेर् गुणानुवादः खलु सत्त्वभावनः ॥ 12 ॥
श्लोक 6.2.13
अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ 13 ॥
श्लोक 6.2.14
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ 14 ॥
श्लोक 6.2.15
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्य् अवशेनाह पुमान् नार्हति यातनाः ॥ 15 ॥
श्लोक 6.2.16
गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ 16 ॥
श्लोक 6.2.17
तैस्तान्य् अघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ 17 ॥
श्लोक 6.2.18
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ 18 ॥
श्लोक 6.2.19
यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतो ऽप्य् आत्मगुणं कुर्यान् मन्त्रो ऽप्य् उदाहृतः ॥ 19 ॥
श्लोक 6.2.20
त एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान् निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ 20 ॥
श्लोक 6.2.21
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् । यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ 21 ॥
श्लोक 6.2.22
द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ 22 ॥
श्लोक 6.2.23
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः । सहसा पश्यतस्तस्य तत्रान्तर्दधिरे ऽनघ ॥ 23 ॥
श्लोक 6.2.24
अजामिलो ऽप्य् अथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ 24 ॥
श्लोक 6.2.25
भक्तिमान् भगवत्य् आशु माहात्म्यश्रवणाद्धरेः । अनुतापो महान् आसीत् स्मरतो ऽशुभमात्मनः ॥ 25 ॥
श्लोक 6.2.26
अहो मे परमं कष्टमभूदविजितात्मनः । येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ 26 ॥
श्लोक 6.2.27
धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं यो ऽहं सुरापीमसतीमगाम् ॥ 27 ॥
श्लोक 6.2.28
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ । अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ 28 ॥
श्लोक 6.2.29
सो ऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ 29 ॥
श्लोक 6.2.30
किमिदं स्वप्न आहो स्वित् साक्षाद्दृष्टमिहाद्भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ 30 ॥
श्लोक 6.2.31
अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः । व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ 31 ॥
श्लोक 6.2.32
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ 32 ॥
श्लोक 6.2.33
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ 33 ॥
श्लोक 6.2.34
क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्य् एतद्भगवन्नाम मङ्गलम् ॥ 34 ॥
श्लोक 6.2.35
सो ऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ 35 ॥
श्लोक 6.2.36
विमुच्य तमिमं बन्धमविद्याकामकर्मजम् । सर्वभूतसुहृच् छान्तो मैत्रः करुण आत्मवान् ॥ 36 ॥
श्लोक 6.2.37
मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया । विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ 37 ॥
श्लोक 6.2.38
ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ 38 ॥
श्लोक 6.2.39
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु । गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ 39 ॥
श्लोक 6.2.40
स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ 40 ॥
श्लोक 6.2.41
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद्धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥ 41 ॥
श्लोक 6.2.42
यर्ह्य् उपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ 42 ॥
श्लोक 6.2.43
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ 43 ॥
श्लोक 6.2.44
साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ 44 ॥
श्लोक 6.2.45
एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ 45 ॥
श्लोक 6.2.46
नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततो ऽन्यथा ॥ 46 ॥
श्लोक 6.2.47
य एतं परमं गुह्यमितिहासमघापहम् । शृणुयाच् छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ 47 ॥
श्लोक 6.2.48
न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्य् अप्य् अमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ 48 ॥
श्लोक 6.2.49
म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलो ऽप्य् अगाद्धाम किमुत श्रद्धया गृणन् ॥ 49 ॥