श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 15
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.15.1
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ 1 ॥
श्लोक 6.15.2
को ऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ 2 ॥
श्लोक 6.15.3
यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ 3 ॥
श्लोक 6.15.4
यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतानि भूतेषु चोदितानीशमायया ॥ 4 ॥
श्लोक 6.15.5
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ् नैवमधुनापि भोः ॥ 5 ॥
श्लोक 6.15.6
भूतैर्भूतानि भूतेशः सृजत्य् अवति हन्ति च । आत्मसृष्टैरस्वतन्त्रैरनपेक्षो ऽपि बालवत् ॥ 6 ॥
श्लोक 6.15.7
देहेन देहिनो राजन् देहाद्देहो ऽभिजायते । बीजादेव यथा बीजं देह्य् अर्थ इव शाश्वतः ॥ 7 ॥
श्लोक 6.15.8
देहदेहिविभागो ऽयमविवेककृतः पुरा । जातिव्यक्तिविभागो ऽयं यथा वस्तुनि कल्पितः ॥ 8 ॥
श्लोक 6.15.9
एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ 9 ॥
श्लोक 6.15.10
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढाविह समागतौ ॥ 10 ॥
श्लोक 6.15.11
चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ 11 ॥
श्लोक 6.15.12
कुमारो नारद ऋभुरङ्गिरा देवलो ऽसितः । अपान्तरतमा व्यासो मार्कण्डेयो ऽथ गौतमः ॥ 12 ॥
श्लोक 6.15.13
वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः ॥ 13 ॥
श्लोक 6.15.14
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा ॥ 14 ॥
श्लोक 6.15.15
हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ 15 ॥
श्लोक 6.15.16
तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ 16 ॥
श्लोक 6.15.17
अहं ते पुत्रकामस्य पुत्रदो ऽस्म्य् अङ्गिरा नृप । एष ब्रह्मसुतः साक्षान् नारदो भगवान् ऋषिः ॥ 17 ॥
श्लोक 6.15.18
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ 18 ॥
श्लोक 6.15.19
अनुग्रहाय भवतः प्राप्तावावामिह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि ॥ 19 ॥
श्लोक 6.15.20
तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्य् अहम् ॥ 20 ॥
श्लोक 6.15.21
अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ 21 ॥
श्लोक 6.15.22
शब्दादयश्च विषयाश्चला राज्यविभूतयः । मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः ॥ 22 ॥
श्लोक 6.15.23
सर्वे ऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ 23 ॥
श्लोक 6.15.24
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसो ऽभवन् ॥ 24 ॥
श्लोक 6.15.25
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ 25 ॥
श्लोक 6.15.26
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ 26 ॥
श्लोक 6.15.27
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् ॥ 27 ॥
श्लोक 6.15.28
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य &अम्प्; सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवान् अपि परं न चिरादुपैति ॥ 28 ॥