मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 14

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.14.1

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथमासीद्दृढा मतिः ॥ 1 ॥

श्लोक 6.14.2

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ 2 ॥

श्लोक 6.14.3

रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ 3 ॥

श्लोक 6.14.4

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ 4 ॥

श्लोक 6.14.5

मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ 5 ॥

श्लोक 6.14.6

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे ॥ 6 ॥

श्लोक 6.14.7

अत्र नः संशयो भूयाञ् छ्रोतुं कौतूहलं प्रभो । यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ 7 ॥

श्लोक 6.14.8

परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचो ऽब्रवीत् ॥ 8 ॥

श्लोक 6.14.9

शृणुष्वावहितो राजन्नितिहासमिमं यथा । श्रुतं द्वैपायनमुखान् नारदाद्देवलादपि ॥ 9 ॥

श्लोक 6.14.10

आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही ॥ 10 ॥

श्लोक 6.14.11

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ 11 ॥

श्लोक 6.14.12

रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः । सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ 12 ॥

श्लोक 6.14.13

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः । सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥ 13 ॥

श्लोक 6.14.14

तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः । लोकान् अनुचरन्नेतान् उपागच्छद्यदृच्छया ॥ 14 ॥

श्लोक 6.14.15

तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः । कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ 15 ॥

श्लोक 6.14.16

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ 16 ॥

श्लोक 6.14.17

अपि ते ऽनामयं स्वस्ति प्रकृतीनां तथात्मनः । यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ 17 ॥

श्लोक 6.14.18

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ 18 ॥

श्लोक 6.14.19

अपि दाराः प्रजामात्या भृत्याः श्रेण्यो ऽथ मन्त्रिणः । पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ 19 ॥

श्लोक 6.14.20

यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे । लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ 20 ॥

श्लोक 6.14.21

आत्मनः प्रीयते नात्मा परतः स्वत एव वा । लक्षये ऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ 21 ॥

श्लोक 6.14.22

एवं विकल्पितो राजन् विदुषा मुनिनापि सः । प्रश्रयावनतो ऽभ्याह प्रजाकामस्ततो मुनिम् ॥ 22 ॥

श्लोक 6.14.23

भगवन् किं न विदितं तपोज्ञानसमाधिभिः । योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ 23 ॥

श्लोक 6.14.24

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् । भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ 24 ॥

श्लोक 6.14.25

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । न नन्दयन्त्य् अप्रजं मां क्षुत्तृट्काममिवापरे ॥ 25 ॥

श्लोक 6.14.26

ततः पाहि महाभाग पूर्वैः सह गतं तमः । यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ 26 ॥

श्लोक 6.14.27

इत्य् अर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः । श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः ॥ 27 ॥

श्लोक 6.14.28

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥ 28 ॥

श्लोक 6.14.29

अथाह नृपतिं राजन् भवितैकस्तवात्मजः । हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ 29 ॥

श्लोक 6.14.30

सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ 30 ॥

श्लोक 6.14.31

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ 31 ॥

श्लोक 6.14.32

अथ काल उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥ 32 ॥

श्लोक 6.14.33

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः । वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ 33 ॥

श्लोक 6.14.34

तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च । ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट् ॥ 34 ॥

श्लोक 6.14.35

ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ 35 ॥

श्लोक 6.14.36

कृच्छ्रलब्धे ऽथ राजर्षेस्तनये ऽनुदिनं पितुः । यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहो ऽन्ववर्धत ॥ 36 ॥

श्लोक 6.14.37

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । कृतद्युतेः सपत्नीनां प्रजाकामज्वरो ऽभवत् ॥ 37 ॥

श्लोक 6.14.38

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतो ऽन्वहम् ॥ 38 ॥

श्लोक 6.14.39

ताः पर्यतप्यन्नात्मानं गर्हयन्त्यो ऽभ्यसूयया । आनपत्येन दुःखेन राज्ञश्चानादरेण च ॥ 39 ॥

श्लोक 6.14.40

धिग् अप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ 40 ॥

श्लोक 6.14.41

दासीनां को नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ 41 ॥

श्लोक 6.14.42

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा । राज्ञो ऽसम्मतवृत्तीनां विद्वेषो बलवान् अभूत् ॥ 42 ॥

श्लोक 6.14.43

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ 43 ॥

श्लोक 6.14.44

कृतद्युतिरजानन्ती सपत्नीनामघं महत् । सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ 44 ॥

श्लोक 6.14.45

शयानं सुचिरं बालमुपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ 45 ॥

श्लोक 6.14.46

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्य् अपतद्भुवि ॥ 46 ॥

श्लोक 6.14.47

तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ 47 ॥

श्लोक 6.14.48

पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ 48 ॥

श्लोक 6.14.49

ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखितास् ताश्च व्यलीकं रुरुदुः कृतागसः ॥ 49 ॥

श्लोक 6.14.50

श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि । स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितो ऽनुप्रकृतिर्द्विजैर्वृतः ॥ 50 ॥

श्लोक 6.14.51

पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः । दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥ 51 ॥

श्लोक 6.14.52

पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ 52 ॥

श्लोक 6.14.53

स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः । विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥ 53 ॥

श्लोक 6.14.54

अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे नु जीवत्य् अपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवः परः ॥ 54 ॥

श्लोक 6.14.55

न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ 55 ॥

श्लोक 6.14.56

त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् &अम्प्; अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् ॥ 56 ॥

श्लोक 6.14.57

उत्तिष्ठ तात त इमे शिशवो वयस्यास् त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्चिरं ह्य् अशनया च भवान् परीतो भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ 57 ॥

श्लोक 6.14.58

नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतो ऽस्य् अपुनरन्वयमन्यलोकं नीतो ऽघृणेन न शृणोमि कला गिरस्ते ॥ 58 ॥

श्लोक 6.14.59

विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः । चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ 59 ॥

श्लोक 6.14.60

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः । रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ 60 ॥

श्लोक 6.14.61

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः ॥ 61 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ