श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 17
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.17.1
यतश्चान्तर्हितो ऽनन्तस्तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुश्चचार गगने चरः ॥ 1 ॥
श्लोक 6.17.2
स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ 2 ॥
श्लोक 6.17.3
कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ 3 ॥
श्लोक 6.17.4
एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ 4 ॥
श्लोक 6.17.5
आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ 5 ॥
श्लोक 6.17.6
एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ 6 ॥
श्लोक 6.17.7
जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ 7 ॥
श्लोक 6.17.8
प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ 8 ॥
श्लोक 6.17.9
भगवान् अपि तच् छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ 9 ॥
श्लोक 6.17.10
इत्य् अतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥ 10 ॥
श्लोक 6.17.11
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ 11 ॥
श्लोक 6.17.12
न वेद धर्मं किल पद्मयोनिर् न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्य् अतिवर्तिनं हरम् ॥ 12 ॥
श्लोक 6.17.13
एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ 13 ॥
श्लोक 6.17.14
नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ 14 ॥
श्लोक 6.17.15
अतः पापीयसीं योनिमासुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ 15 ॥
श्लोक 6.17.16
एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ 16 ॥
श्लोक 6.17.17
प्रतिगृह्णामि ते शापमात्मनो ऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ 17 ॥
श्लोक 6.17.18
संसारचक्र एतस्मिञ् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ 18 ॥
श्लोक 6.17.19
नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यते ऽत्राज्ञ आत्मानं परमेव च ॥ 19 ॥
श्लोक 6.17.20
गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ 20 ॥
श्लोक 6.17.21
एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ 21 ॥
श्लोक 6.17.22
न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ 22 ॥
श्लोक 6.17.23
तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये ऽवकल्पते ॥ 23 ॥
श्लोक 6.17.24
अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति ॥ 24 ॥
श्लोक 6.17.25
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ 25 ॥
श्लोक 6.17.26
ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥ 26 ॥
श्लोक 6.17.27
दृष्टवत्य् असि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ 27 ॥
श्लोक 6.17.28
नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ 28 ॥
श्लोक 6.17.29
देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापो ऽनुग्रह एव च ॥ 29 ॥
श्लोक 6.17.30
अविवेककृतः पुंसो ह्य् अर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत् कृतः ॥ 30 ॥
श्लोक 6.17.31
वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ 31 ॥
श्लोक 6.17.32
नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ 32 ॥
श्लोक 6.17.33
न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ 33 ॥
श्लोक 6.17.34
तस्य चायं महाभागश्चित्रकेतुः प्रियो ऽनुगः । सर्वत्र समदृक् शान्तो ह्य् अहं चैवाच्युतप्रियः ॥ 34 ॥
श्लोक 6.17.35
तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ 35 ॥
श्लोक 6.17.36
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ 36 ॥
श्लोक 6.17.37
इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापमेतावत् साधुलक्षणम् ॥ 37 ॥
श्लोक 6.17.38
जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्य् अभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ 38 ॥
श्लोक 6.17.39
एतत् ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ 39 ॥
श्लोक 6.17.40
इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ 40 ॥
श्लोक 6.17.41
य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ 41 ॥