श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 18
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.18.1
पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ 1 ॥
श्लोक 6.18.2
सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ 2 ॥
श्लोक 6.18.3
धातुः कुहूः सिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ 3 ॥
श्लोक 6.18.4
अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ 4 ॥
श्लोक 6.18.5
वाल्मीकिश्च महायोगी वल्मीकादभवत् किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥ 5 ॥
श्लोक 6.18.6
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ 6 ॥
श्लोक 6.18.7
पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् । जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ 7 ॥
श्लोक 6.18.8
उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥ 8 ॥
श्लोक 6.18.9
तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहे ऽदित्यां यथैवावततार ह ॥ 9 ॥
श्लोक 6.18.10
अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते । यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च ॥ 10 ॥
श्लोक 6.18.11
दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ 11 ॥
श्लोक 6.18.12
हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ॥ 12 ॥
श्लोक 6.18.13
संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितो ऽग्रहीत् ॥ 13 ॥
श्लोक 6.18.14
शिरो ऽहरद्यस्य हरिश्चक्रेण पिबतो ऽमृतम् । संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः ॥ 14 ॥
श्लोक 6.18.15
ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् । यो ऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ 15 ॥
श्लोक 6.18.16
अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥ 16 ॥
श्लोक 6.18.17
बाणज्येष्ठं पुत्रशतमशनायां ततो ऽभवत् । तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते ॥ 17 ॥
श्लोक 6.18.18
बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुरपालकः ॥ 18 ॥
श्लोक 6.18.19
मरुतश्च दितेः पुत्राश्चत्वारिंशन् नवाधिकाः । त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ 19 ॥
श्लोक 6.18.20
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो । इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥ 20 ॥
श्लोक 6.18.21
इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन् नो व्याख्यातुमर्हसि ॥ 21 ॥
श्लोक 6.18.22
तद्विष्णुरातस्य स बादरायणिर् वचो निशम्यादृतमल्पमर्थवत् । सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥ 22 ॥
श्लोक 6.18.23
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ 23 ॥
श्लोक 6.18.24
कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् । अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ 24 ॥
श्लोक 6.18.25
कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ 25 ॥
श्लोक 6.18.26
आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ 26 ॥
श्लोक 6.18.27
इति भावेन सा भर्तुराचचारासकृत् प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ 27 ॥
श्लोक 6.18.28
भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः । मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥ 28 ॥
श्लोक 6.18.29
एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया । बाढमित्य् आह विवशो न तच् चित्रं हि योषिति ॥ 29 ॥
श्लोक 6.18.30
विलोक्यैकान्तभूतानि भूतान्य् आदौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ 30 ॥
श्लोक 6.18.31
एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ 31 ॥
श्लोक 6.18.32
वरं वरय वामोरु प्रीतस्ते ऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ 32 ॥
श्लोक 6.18.33
पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ 33 ॥
श्लोक 6.18.34
स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ 34 ॥
श्लोक 6.18.35
तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्ते ऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ 35 ॥
श्लोक 6.18.36
सो ऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः । तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ 36 ॥
श्लोक 6.18.37
वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ 37 ॥
श्लोक 6.18.38
निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ 38 ॥
श्लोक 6.18.39
अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ 39 ॥
श्लोक 6.18.40
को ऽतिक्रमो ऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ 40 ॥
श्लोक 6.18.41
शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ 41 ॥
श्लोक 6.18.42
न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च ॥ 42 ॥
श्लोक 6.18.43
प्रतिश्रुतं ददामीति वचस्तन् न मृषा भवेत् । वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ॥ 43 ॥
श्लोक 6.18.44
इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन । उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ 44 ॥
श्लोक 6.18.45
पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः । संवत्सरं व्रतमिदं यद्य् अञ्जो धारयिष्यसि ॥ 45 ॥
श्लोक 6.18.46
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत ॥ 46 ॥
श्लोक 6.18.47
न हिंस्याद्भूतजातानि न शपेन् नानृतं वदेत् । न छिन्द्यान् नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ 47 ॥
श्लोक 6.18.48
नाप्सु स्नायान् न कुप्येत न सम्भाषेत दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ 48 ॥
श्लोक 6.18.49
नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिबेन् नाञ्जलिना त्वपः ॥ 49 ॥
श्लोक 6.18.50
नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा । अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥ 50 ॥
श्लोक 6.18.51
नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः । शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ 51 ॥
श्लोक 6.18.52
धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत् प्रातराशात् प्राग् गोविप्राञ् श्रियमच्युतम् ॥ 52 ॥
श्लोक 6.18.53
स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः । पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम् ॥ 53 ॥
श्लोक 6.18.54
सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः ॥ 54 ॥
श्लोक 6.18.55
बाढमित्य् अभ्युपेत्याथ दिती राजन् महामनाः । कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ 55 ॥
श्लोक 6.18.56
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः ॥ 56 ॥
श्लोक 6.18.57
नित्यं वनात् सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदो ऽपश्च काले काल उपाहरत् ॥ 57 ॥
श्लोक 6.18.58
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः ॥ 58 ॥
श्लोक 6.18.59
नाध्यगच्छद्व्रतच्छिद्रं तत्परो ऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्विह ॥ 59 ॥
श्लोक 6.18.60
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ 60 ॥
श्लोक 6.18.61
लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ 61 ॥
श्लोक 6.18.62
चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ 62 ॥
श्लोक 6.18.63
तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप । किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥ 63 ॥
श्लोक 6.18.64
मा भैष्ट भ्रातरो मह्यं यूयमित्य् आह कौशिकः । अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान् ॥ 64 ॥
श्लोक 6.18.65
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ 65 ॥
श्लोक 6.18.66
सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ 66 ॥
श्लोक 6.18.67
सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतो ऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ 67 ॥
श्लोक 6.18.68
दितिरुत्थाय ददृशे कुमारान् अनलप्रभान् । इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ 68 ॥
श्लोक 6.18.69
अथेन्द्रमाह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्य् अचरं व्रतमेतत् सुदुष्करम् ॥ 69 ॥
श्लोक 6.18.70
एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ 70 ॥
श्लोक 6.18.71
अम्ब ते ऽहं व्यवसितमुपधार्यागतो ऽन्तिकम् । लब्धान्तरो ऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ 71 ॥
श्लोक 6.18.72
कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः । ते ऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ 72 ॥
श्लोक 6.18.73
ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्य् आनुषङ्गिणी ॥ 73 ॥
श्लोक 6.18.74
आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्य् अपि परं ते स्वार्थकुशलाः स्मृताः ॥ 74 ॥
श्लोक 6.18.75
आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीत गुणस्पर्शं बुधः स्यान् नरके ऽपि यत् ॥ 75 ॥
श्लोक 6.18.76
तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ 76 ॥
श्लोक 6.18.77
इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ 77 ॥
श्लोक 6.18.78
एवं ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ 78 ॥