मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 19

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.19.1

व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ 1 ॥

श्लोक 6.19.2

शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ 2 ॥

श्लोक 6.19.3

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ 3 ॥

श्लोक 6.19.4

अलं ते निरपेक्षाय पूर्णकाम नमो ऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ 4 ॥

श्लोक 6.19.5

यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैस्ततो ऽसि भगवान् प्रभुः ॥ 5 ॥

श्लोक 6.19.6

विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमो ऽस्तु ते ॥ 6 ॥

श्लोक 6.19.7

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् ॥ 7 ॥

श्लोक 6.19.8

हविःशेषं च जुहुयादनले द्वादशाहुतीः । ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ 8 ॥

श्लोक 6.19.9

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्वसम्पदः ॥ 9 ॥

श्लोक 6.19.10

प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन् मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ 10 ॥

श्लोक 6.19.11

युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ 11 ॥

श्लोक 6.19.12

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ 12 ॥

श्लोक 6.19.13

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् । त्वं हि सर्वशरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ 13 ॥

श्लोक 6.19.14

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ 14 ॥

श्लोक 6.19.15

इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन् निःसार्योपहरणं दत्त्वाचमनमर्चयेत् ॥ 15 ॥

श्लोक 6.19.16

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ 16 ॥

श्लोक 6.19.17

पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ 17 ॥

श्लोक 6.19.18

कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ 18 ॥

श्लोक 6.19.19

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ 19 ॥

श्लोक 6.19.20

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये ॥ 20 ॥

श्लोक 6.19.21

एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपरमेत् साध्वी कार्तिके चरमे ऽहनि ॥ 21 ॥

श्लोक 6.19.22

श्वोभूते ऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःशृतेन जुहुयाच् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ 22 ॥

श्लोक 6.19.23

आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ 23 ॥

श्लोक 6.19.24

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ 24 ॥

श्लोक 6.19.25

एतच् चरित्वा विधिवद्व्रतं विभोर् अभीप्सितार्थं लभते पुमान् इह । स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ 25 ॥

श्लोक 6.19.26

कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ 26 ॥

श्लोक 6.19.27

विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत् पठन्नभ्युदये च कर्मण्य् अनन्ततृप्तिः पितृदेवतानाम् ॥ 27 ॥

श्लोक 6.19.28

तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च । राजन् महन् मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते ॥ 28 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ