मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 1

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.1.1

समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यान् अवधीद्विषमो यथा ॥ 1 ॥

श्लोक 7.1.2

न ह्यस्यार्थः सुरगणैः साक्षान् निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ 2 ॥

श्लोक 7.1.3

इति नः सुमहाभाग नारायणगुणान् प्रति । संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥ 3 ॥

श्लोक 7.1.4

साधु पृष्टं महाराज हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ 4 ॥

श्लोक 7.1.5

गीयते परमं पुण्यमृषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ 5 ॥

श्लोक 7.1.6

निर्गुणो ऽपि ह्यजो ऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ 6 ॥

श्लोक 7.1.7

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ 7 ॥

श्लोक 7.1.8

जयकाले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणो ऽभजत् ॥ 8 ॥

श्लोक 7.1.9

ज्योतिरादिरिवाभाति सङ्घातान् न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयो ऽन्ततः ॥ 9 ॥

श्लोक 7.1.10

यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ 10 ॥

श्लोक 7.1.11

कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकान् असुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ 11 ॥

श्लोक 7.1.12

अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छते ऽजातशत्रवे ॥ 12 ॥

श्लोक 7.1.13

दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ । वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ 13 ॥

श्लोक 7.1.14

तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ । पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् ॥ 14 ॥

श्लोक 7.1.15

अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ 15 ॥

श्लोक 7.1.16

एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ 16 ॥

श्लोक 7.1.17

दमघोषसुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ 17 ॥

श्लोक 7.1.18

शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ 18 ॥

श्लोक 7.1.19

कथं तस्मिन् भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ 19 ॥

श्लोक 7.1.20

एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना । ब्रूह्येतदद्भुततमं भगवान् ह्यत्र कारणम् ॥ 20 ॥

श्लोक 7.1.21

राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः । तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः ॥ 21 ॥

श्लोक 7.1.22

निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ 22 ॥

श्लोक 7.1.23

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ 23 ॥

श्लोक 7.1.24

यन्निबद्धो ऽभिमानो ऽयं तद्वधात् प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानो ऽखिलात्मनः । परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ 24 ॥

श्लोक 7.1.25

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ 25 ॥

श्लोक 7.1.26

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ 26 ॥

श्लोक 7.1.27

कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ 27 ॥

श्लोक 7.1.28

एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ 28 ॥

श्लोक 7.1.29

कामाद्द्वेषाद्भयात् स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ 29 ॥

श्लोक 7.1.30

गोप्यः कामाद्भयात् कंसो द्वेषाच् चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ 30 ॥

श्लोक 7.1.31

कतमो ऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति । तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ 31 ॥

श्लोक 7.1.32

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ 32 ॥

श्लोक 7.1.33

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः । अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥ 33 ॥

श्लोक 7.1.34

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ 34 ॥

श्लोक 7.1.35

एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ 35 ॥

श्लोक 7.1.36

पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥ 36 ॥

श्लोक 7.1.37

अशपन् कुपिता एवं युवां वासं न चार्हथः । रजस्तमोभ्यां रहिते पादमूले मधुद्विषः । पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥ 37 ॥

श्लोक 7.1.38

एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभिः । प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ 38 ॥

श्लोक 7.1.39

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो ऽनुजस्ततः ॥ 39 ॥

श्लोक 7.1.40

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥ 40 ॥

श्लोक 7.1.41

हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोन् नाना यातना मृत्युहेतवे ॥ 41 ॥

श्लोक 7.1.42

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ 42 ॥

श्लोक 7.1.43

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ 43 ॥

श्लोक 7.1.44

तत्रापि राघवो भूत्वा न्यहनच् छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥ 44 ॥

श्लोक 7.1.45

तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ 45 ॥

श्लोक 7.1.46

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ 46 ॥

श्लोक 7.1.47

विद्वेषो दयिते पुत्रे कथमासीन् महात्मनि । ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥ 47 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ