मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 2

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.2.1

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ 1 ॥

श्लोक 7.2.2

आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः । कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ 2 ॥

श्लोक 7.2.3

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् ॥ 3 ॥

श्लोक 7.2.4

भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ 4 ॥

श्लोक 7.2.5

विप्रचित्ते मम वचः पुलोमन् शकुनादयः । शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ 5 ॥

श्लोक 7.2.6

सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ 6 ॥

श्लोक 7.2.7

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ 7 ॥

श्लोक 7.2.8

मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै । असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ 8 ॥

श्लोक 7.2.9

तस्मिन् कूटे ऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ 9 ॥

श्लोक 7.2.10

तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् । सूदयध्वं तपोयज्ञ स्वाध्यायव्रतदानिनः ॥ 10 ॥

श्लोक 7.2.11

विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ 11 ॥

श्लोक 7.2.12

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥ 12 ॥

श्लोक 7.2.13

इति ते भर्तृनिर्देशमादाय शिरसादृताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ 13 ॥

श्लोक 7.2.14

पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान् । खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ 14 ॥

श्लोक 7.2.15

केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान् केचित् परशुपाणयः । प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ 15 ॥

श्लोक 7.2.16

एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ 16 ॥

श्लोक 7.2.17

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रान् असान्त्वयत् ॥ 17 ॥

श्लोक 7.2.18

शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ 18 ॥

श्लोक 7.2.19

तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ 19 ॥

श्लोक 7.2.20

अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् । रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ 20 ॥

श्लोक 7.2.21

भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥ 21 ॥

श्लोक 7.2.22

नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः । धत्ते ऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ 22 ॥

श्लोक 7.2.23

यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ 23 ॥

श्लोक 7.2.24

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव ॥ 24 ॥

श्लोक 7.2.25

एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना । एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ 25 ॥

श्लोक 7.2.26

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ 26 ॥

श्लोक 7.2.27

अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ 27 ॥

श्लोक 7.2.28

उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ 28 ॥

श्लोक 7.2.29

विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् । शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ 29 ॥

श्लोक 7.2.30

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् । रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ 30 ॥

श्लोक 7.2.31

उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ 31 ॥

श्लोक 7.2.32

रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥ 32 ॥

श्लोक 7.2.33

अहो विधात्राकरुणेन नः प्रभो भवान् प्रणीतो दृगगोचरां दशाम् । उशीनराणामसि वृत्तिदः पुरा कृतो ऽधुना येन शुचां विवर्धनः ॥ 33 ॥

श्लोक 7.2.34

त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि ॥ 34 ॥

श्लोक 7.2.35

एवं विलपतीनां वै परिगृह्य मृतं पतिम् । अनिच्छतीनां निर्हारमर्को ऽस्तं सन्न्यवर्तत ॥ 35 ॥

श्लोक 7.2.36

तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् । आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ 36 ॥

श्लोक 7.2.37

अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः । यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ 37 ॥

श्लोक 7.2.38

अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ॥ 38 ॥

श्लोक 7.2.39

य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीशितुश् चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ 39 ॥

श्लोक 7.2.40

पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथो ऽपि तदीक्षितो वने गृहे ऽभिगुप्तो ऽस्य हतो न जीवति ॥ 40 ॥

श्लोक 7.2.41

भूतानि तैस्तैर्निजयोनिकर्मभिर् भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थितस् तस्या गुणैरन्यतमो हि बध्यते ॥ 41 ॥

श्लोक 7.2.42

इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् । यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ 42 ॥

श्लोक 7.2.43

यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः । यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥ 43 ॥

श्लोक 7.2.44

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ । यः श्रोता यो ऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ 44 ॥

श्लोक 7.2.45

न श्रोता नानुवक्तायं मुख्यो ऽप्यत्र महान् असुः । यस्त्विहेन्द्रियवान् आत्मा स चान्यः प्राणदेहयोः ॥ 45 ॥

श्लोक 7.2.46

भूतेन्द्रियमनोलिङ्गान् देहान् उच्चावचान् विभुः । भजत्युत्सृजति ह्यन्यस्तच् चापि स्वेन तेजसा ॥ 46 ॥

श्लोक 7.2.47

यावल् लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनम् । ततो विपर्ययः क्लेशो मायायोगो ऽनुवर्तते ॥ 47 ॥

श्लोक 7.2.48

वितथाभिनिवेशो ऽयं यद्गुणेष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ 48 ॥

श्लोक 7.2.49

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ 49 ॥

श्लोक 7.2.50

लुब्धको विपिने कश्चित् पक्षिणां निर्मितो ऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ 50 ॥

श्लोक 7.2.51

कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत । तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ 51 ॥

श्लोक 7.2.52

आसज्जत सिचस्तन्त्र्यां महिष्यः कालयन्त्रिता । कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥ 52 ॥

श्लोक 7.2.53

अहो अकरुणो देवः स्त्रियाकरुणया विभुः । कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ 53 ॥

श्लोक 7.2.54

कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥ 54 ॥

श्लोक 7.2.55

कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् । मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ 55 ॥

श्लोक 7.2.56

एवं कुलिङ्गं विलपन्तमारात् प्रियावियोगातुरमश्रुकण्ठम् । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥ 56 ॥

श्लोक 7.2.57

एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ 57 ॥

श्लोक 7.2.58

बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ 58 ॥

श्लोक 7.2.59

यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ॥ 59 ॥

श्लोक 7.2.60

अतः शोचत मा यूयं परं चात्मानमेव वा । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ 60 ॥

श्लोक 7.2.61

इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ 61 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ