श्रीमद्भागवत सप्तम स्कन्ध अध्याय 15
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.15.1
कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे । स्वाध्याये ऽन्ये प्रवचने केचन ज्ञानयोगयोः ॥ 1 ॥
श्लोक 7.15.2
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥ 2 ॥
श्लोक 7.15.3
द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा । भोजयेत् सुसमृद्धो ऽपि श्राद्धे कुर्यान् न विस्तरम् ॥ 3 ॥
श्लोक 7.15.4
देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् ॥ 4 ॥
श्लोक 7.15.5
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् ॥ 5 ॥
श्लोक 7.15.6
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् ॥ 6 ॥
श्लोक 7.15.7
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात् परा प्रीतिर्यथा न पशुहिंसया ॥ 7 ॥
श्लोक 7.15.8
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ 8 ॥
श्लोक 7.15.9
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमने ऽनीहा जुह्वति ज्ञानदीपिते ॥ 9 ॥
श्लोक 7.15.10
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् ॥ 10 ॥
श्लोक 7.15.11
तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टो ऽहरहः कुर्यान् नित्यनैमित्तिकीः क्रियाः ॥ 11 ॥
श्लोक 7.15.12
विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत् त्यजेत् ॥ 12 ॥
श्लोक 7.15.13
धर्मबाधो विधर्मः स्यात् परधर्मो ऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच् छलः ॥ 13 ॥
श्लोक 7.15.14
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ 14 ॥
श्लोक 7.15.15
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ 15 ॥
श्लोक 7.15.16
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतस्तत् कामलोभेन धावतो ऽर्थेहया दिशः ॥ 16 ॥
श्लोक 7.15.17
सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ 17 ॥
श्लोक 7.15.18
सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः ॥ 18 ॥
श्लोक 7.15.19
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ 19 ॥
श्लोक 7.15.20
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत् फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ 20 ॥
श्लोक 7.15.21
पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः । सदसस् पतयो ऽप्येके असन्तोषात् पतन्त्यधः ॥ 21 ॥
श्लोक 7.15.22
असङ्कल्पाज् जयेत् कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ 22 ॥
श्लोक 7.15.23
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान् मौनेन हिंसां कामाद्यनीहया ॥ 23 ॥
श्लोक 7.15.24
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ 24 ॥
श्लोक 7.15.25
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ 25 ॥
श्लोक 7.15.26
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ 26 ॥
श्लोक 7.15.27
एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ 27 ॥
श्लोक 7.15.28
षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगान् आवहेयुः श्रमावहाः ॥ 28 ॥
श्लोक 7.15.29
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः ॥ 29 ॥
श्लोक 7.15.30
यश्चित्तविजये यत्तः स्यान् निःसङ्गो ऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ॥ 30 ॥
श्लोक 7.15.31
देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ 31 ॥
श्लोक 7.15.32
प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः । यावन् मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः ॥ 32 ॥
श्लोक 7.15.33
यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच् छनैर्बुधः ॥ 33 ॥
श्लोक 7.15.34
एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ 34 ॥
श्लोक 7.15.35
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ 35 ॥
श्लोक 7.15.36
यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः । यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः ॥ 36 ॥
श्लोक 7.15.37
यैः स्वदेहः स्मृतो ऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात् कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ 37 ॥
श्लोक 7.15.38
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ 38 ॥
श्लोक 7.15.39
आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । देवमायाविमूढांस्तान् उपेक्षेतानुकम्पया ॥ 39 ॥
श्लोक 7.15.40
आत्मानं चेद्विजानीयात् परं ज्ञानधुताशयः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ 40 ॥
श्लोक 7.15.41
आहुः शरीरं रथमिन्द्रियाणि हयान् अभीषून् मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ॥ 41 ॥
श्लोक 7.15.42
अक्षं दशप्राणमधर्मधर्मौ चक्रे ऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥ 42 ॥
श्लोक 7.15.43
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानो ऽवमानो ऽसूया च माया हिंसा च मत्सरः ॥ 43 ॥
श्लोक 7.15.44
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥ 44 ॥
श्लोक 7.15.45
यावन् नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम् &अम्प्; ज्ञानासिमच्युतबलो दधदस्तशत्रुः स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ 45 ॥
श्लोक 7.15.46
नोचेत् प्रमत्तमसदिन्द्रियवाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यवः सहयसूतममुं तमो ऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति ॥ 46 ॥
श्लोक 7.15.47
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुते ऽमृतम् ॥ 47 ॥
श्लोक 7.15.48
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥ 48 ॥
श्लोक 7.15.49
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् ॥ 49 ॥
श्लोक 7.15.50
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ 50 ॥
श्लोक 7.15.51
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ 51 ॥
श्लोक 7.15.52
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ 52 ॥
श्लोक 7.15.53
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत् । ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ 53 ॥
श्लोक 7.15.54
अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वो ऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ 54 ॥
श्लोक 7.15.55
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ 55 ॥
श्लोक 7.15.56
य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थो ऽपि न मुह्यति ॥ 56 ॥
श्लोक 7.15.57
आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ 57 ॥
श्लोक 7.15.58
आबाधितो ऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ 58 ॥
श्लोक 7.15.59
क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारो ऽपि न पृथङ् नान्वितो मृषा ॥ 59 ॥
श्लोक 7.15.60
धातवो ऽवयवित्वाच् च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवो ऽन्ततः ॥ 60 ॥
श्लोक 7.15.61
स्यात् सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ 61 ॥
श्लोक 7.15.62
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ 62 ॥
श्लोक 7.15.63
कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ 63 ॥
श्लोक 7.15.64
यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ 64 ॥
श्लोक 7.15.65
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ 65 ॥
श्लोक 7.15.66
यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ 66 ॥
श्लोक 7.15.67
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहे ऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥ 67 ॥
श्लोक 7.15.68
यथा हि यूयं नृपदेव दुस्त्यजाद् आपद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवान् अहारषीन् निर्जितदिग्गजः क्रतून् ॥ 68 ॥
श्लोक 7.15.69
अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ 69 ॥
श्लोक 7.15.70
रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ॥ 70 ॥
श्लोक 7.15.71
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ 71 ॥
श्लोक 7.15.72
अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन् मे हेलनं शेपुरोजसा । याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥ 72 ॥
श्लोक 7.15.73
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तो ऽहं ब्रह्मपुत्रताम् ॥ 73 ॥
श्लोक 7.15.74
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ 74 ॥
श्लोक 7.15.75
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ 75 ॥
श्लोक 7.15.76
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ 76 ॥
श्लोक 7.15.77
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ 77 ॥
श्लोक 7.15.78
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ 78 ॥
श्लोक 7.15.79
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ 79 ॥
श्लोक 7.15.80
इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ 80 ॥