श्रीमद्भागवत सप्तम स्कन्ध अध्याय 14
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.14.1
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ 1 ॥
श्लोक 7.14.2
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् यथोचिताः । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ 2 ॥
श्लोक 7.14.3
शृण्वन् भगवतो ऽभीक्ष्णमवतारकथामृतम् । श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥ 3 ॥
श्लोक 7.14.4
सत्सङ्गाच् छनकैः सङ्गमात्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ 4 ॥
श्लोक 7.14.5
यावदर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ 5 ॥
श्लोक 7.14.6
ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदो ऽपरे । यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ 6 ॥
श्लोक 7.14.7
दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् । तत् सर्वमुपयुञ्जान एतत् कुर्यात् स्वतो बुधः ॥ 7 ॥
श्लोक 7.14.8
यावद्भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं यो ऽभिमन्येत स स्तेनो दण्डमर्हति ॥ 8 ॥
श्लोक 7.14.9
मृगोष्ट्रखरमर्काखु सरीसृप् खगमक्षिकाः । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ॥ 9 ॥
श्लोक 7.14.10
त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ 10 ॥
श्लोक 7.14.11
आश्वाघान्ते ऽवसायिभ्यः कामान् संविभजेद्यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ 11 ॥
श्लोक 7.14.12
जह्याद्यदर्थे स्वान् प्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः ॥ 12 ॥
श्लोक 7.14.13
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ 13 ॥
श्लोक 7.14.14
सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ 14 ॥
श्लोक 7.14.15
देवान् ऋषीन् नृभूतानि पितॄन् आत्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ 15 ॥
श्लोक 7.14.16
यर्ह्यात्मनो ऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ 16 ॥
श्लोक 7.14.17
न ह्यग्निमुखतो ऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ 17 ॥
श्लोक 7.14.18
तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणान् अनु ॥ 18 ॥
श्लोक 7.14.19
कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ 19 ॥
श्लोक 7.14.20
अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ 20 ॥
श्लोक 7.14.21
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ 21 ॥
श्लोक 7.14.22
माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ 22 ॥
श्लोक 7.14.23
द्वादश्यामनुराधा स्याच् छ्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक् ॥ 23 ॥
श्लोक 7.14.24
त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयो ऽमोघं तदायुषः ॥ 24 ॥
श्लोक 7.14.25
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ 25 ॥
श्लोक 7.14.26
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ 26 ॥
श्लोक 7.14.27
अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयाअवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ 27 ॥
श्लोक 7.14.28
बिम्बं भगवतो यत्र सर्वमेतच् चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ 28 ॥
श्लोक 7.14.29
यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥ 29 ॥
श्लोक 7.14.30
सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ 30 ॥
श्लोक 7.14.31
नैमिषं फाल्गुनं सेतुः प्रभासो ऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ 31 ॥
श्लोक 7.14.32
नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ 32 ॥
श्लोक 7.14.33
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ 33 ॥
श्लोक 7.14.34
पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ 34 ॥
श्लोक 7.14.35
देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ 35 ॥
श्लोक 7.14.36
जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ 36 ॥
श्लोक 7.14.37
पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ 37 ॥
श्लोक 7.14.38
तेष्वेव भगवान् राजंस्तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते ॥ 38 ॥
श्लोक 7.14.39
दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ 39 ॥
श्लोक 7.14.40
ततो ऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ 40 ॥
श्लोक 7.14.41
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ 41 ॥
श्लोक 7.14.42
नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ 42 ॥