श्रीमद्भागवत सप्तम स्कन्ध अध्याय 6
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.6.1
कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ 1 ॥
श्लोक 7.6.2
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ 2 ॥
श्लोक 7.6.3
सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥ 3 ॥
श्लोक 7.6.4
तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ 4 ॥
श्लोक 7.6.5
ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् ॥ 5 ॥
श्लोक 7.6.6
पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेते ऽन्धं प्रापितस्तमः ॥ 6 ॥
श्लोक 7.6.7
मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ 7 ॥
श्लोक 7.6.8
दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ 8 ॥
श्लोक 7.6.9
को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ 9 ॥
श्लोक 7.6.10
को न्वर्थतृष्णां विसृजेत् प्राणेभ्यो ऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ 10 ॥
श्लोक 7.6.11
कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ 11 ॥
श्लोक 7.6.12
पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ 12 ॥
श्लोक 7.6.13
त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ 13 ॥
श्लोक 7.6.14
कुटुम्बपोषाय वियन् निजायुर् न बुध्यते ऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ 14 ॥
श्लोक 7.6.15
वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह वाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ 15 ॥
श्लोक 7.6.16
विद्वान् अपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावस् तमः प्रपद्येत यथा विमूढः ॥ 16 ॥
श्लोक 7.6.17
यतो न कश्चित् क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ॥ 17 ॥
श्लोक 7.6.18
ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितो ऽपवर्गः ॥ 18 ॥
श्लोक 7.6.19
न ह्यच्युतं प्रीणयतो बह्वायासो ऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ 19 ॥
श्लोक 7.6.20
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ 20 ॥
श्लोक 7.6.21
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरो ऽव्ययः ॥ 21 ॥
श्लोक 7.6.22
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो ऽविकल्पितः ॥ 22 ॥
श्लोक 7.6.23
केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ 23 ॥
श्लोक 7.6.24
तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ 24 ॥
श्लोक 7.6.25
तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः &अम्प्; धर्मादयः किमगुणेन च काङ्क्षितेन सारं जुषां चरणयोरुपगायतां नः ॥ 25 ॥
श्लोक 7.6.26
धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ 26 ॥
श्लोक 7.6.27
ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतस्तदकिञ्चनानां पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ 27 ॥
श्लोक 7.6.28
श्रुतमेतन् मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ 28 ॥
श्लोक 7.6.29
प्रह्राद त्वं वयं चापि नर्ते ऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ 29 ॥
श्लोक 7.6.30
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्याच् चेद्विस्रम्भकारणम् ॥ 30 ॥