मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 5

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.5.1

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ 1 ॥

श्लोक 7.5.2

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यान् अन्यांश्चासुरबालकान् ॥ 2 ॥

श्लोक 7.5.3

यत् तत्र गुरुणा प्रोक्तं शुश्रुवे ऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ 3 ॥

श्लोक 7.5.4

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥ 4 ॥

श्लोक 7.5.5

तत् साधु मन्ये ऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥ 5 ॥

श्लोक 7.5.6

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ 6 ॥

श्लोक 7.5.7

सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ 7 ॥

श्लोक 7.5.8

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ 8 ॥

श्लोक 7.5.9

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालान् अति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ 9 ॥

श्लोक 7.5.10

बुद्धिभेदः परकृत उताहो ते स्वतो ऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ 10 ॥

श्लोक 7.5.11

परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥ 11 ॥

श्लोक 7.5.12

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्यो ऽहमिति भेदगतासती ॥ 12 ॥

श्लोक 7.5.13

स एष आत्मा स्वपरेत्यबुद्धिभिर् दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ 13 ॥

श्लोक 7.5.14

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ 14 ॥

श्लोक 7.5.15

एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः ॥ 15 ॥

श्लोक 7.5.16

आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थो ऽस्योदितो दमः ॥ 16 ॥

श्लोक 7.5.17

दैतेयचन्दनवने जातो ऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितो ऽर्भकः ॥ 17 ॥

श्लोक 7.5.18

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ 18 ॥

श्लोक 7.5.19

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥ 19 ॥

श्लोक 7.5.20

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ 20 ॥

श्लोक 7.5.21

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ 21 ॥

श्लोक 7.5.22

प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ 22 ॥

श्लोक 7.5.23

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ 23 ॥

श्लोक 7.5.24

इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा । क्रियेत भगवत्यद्धा तन् मन्ये ऽधीतमुत्तमम् ॥ 24 ॥

श्लोक 7.5.25

निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ 25 ॥

श्लोक 7.5.26

ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ 26 ॥

श्लोक 7.5.27

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ 27 ॥

श्लोक 7.5.28

न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो । नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः ॥ 28 ॥

श्लोक 7.5.29

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतो ऽभद्रासती मतिः ॥ 29 ॥

श्लोक 7.5.30

मतिर्न कृष्णे परतः स्वतो वा मिथो ऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ॥ 30 ॥

श्लोक 7.5.31

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास् ते ऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥ 31 ॥

श्लोक 7.5.32

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजो ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ 32 ॥

श्लोक 7.5.33

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत महीतले ॥ 33 ॥

श्लोक 7.5.34

आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥ 34 ॥

श्लोक 7.5.35

अयं मे भ्रातृहा सो ऽयं हित्वा स्वान् सुहृदो ऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ॥ 35 ॥

श्लोक 7.5.36

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥ 36 ॥

श्लोक 7.5.37

परो ऽप्यपत्यं हितकृद्यथौषधं स्वदेहजो ऽप्यामयवत् सुतो ऽहितः । छिन्द्यात् तदङ्गं यदुतात्मनो ऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ 37 ॥

श्लोक 7.5.38

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ 38 ॥

श्लोक 7.5.39

नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥ 39 ॥

श्लोक 7.5.40

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु ॥ 40 ॥

श्लोक 7.5.41

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥ 41 ॥

श्लोक 7.5.42

प्रयासे ऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ 42 ॥

श्लोक 7.5.43

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ 43 ॥

श्लोक 7.5.44

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् । चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ 44 ॥

श्लोक 7.5.45

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥ 45 ॥

श्लोक 7.5.46

वर्तमानो ऽविदूरे वै बालो ऽप्यजडधीरयम् । न विस्मरति मे ऽनार्यं शुनः शेप इव प्रभुः ॥ 46 ॥

श्लोक 7.5.47

अप्रमेयानुभावो ऽयमकुतश्चिद्भयो ऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ 47 ॥

श्लोक 7.5.48

इति तच्चिन्तया किञ्चिन् म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ 48 ॥

श्लोक 7.5.49

जितं त्वयैकेन जगत्त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ॥ 49 ॥

श्लोक 7.5.50

इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥ 50 ॥

श्लोक 7.5.51

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ 51 ॥

श्लोक 7.5.52

धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन् प्रश्रितावनताय च ॥ 52 ॥

श्लोक 7.5.53

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ 53 ॥

श्लोक 7.5.54

यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ 54 ॥

श्लोक 7.5.55

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ 55 ॥

श्लोक 7.5.56

ते तु तद्गौरवात् सर्वे त्यक्तक्रीडापरिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ॥ 56 ॥

श्लोक 7.5.57

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तान् आह करुणो मैत्रो महाभागवतो ऽसुरः ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ