श्रीमद्भागवत सप्तम स्कन्ध अध्याय 8
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.8.1
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान् नैव गुर्वनुशिक्षितम् ॥ 1 ॥
श्लोक 7.8.2
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ 2 ॥
श्लोक 7.8.3
श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ 3 ॥
श्लोक 7.8.4
क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् । आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ 4 ॥
श्लोक 7.8.5
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् । सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ 5 ॥
श्लोक 7.8.6
हे दुर्विनीत मन्दात्मन् कुलभेदकराधम । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ॥ 6 ॥
श्लोक 7.8.7
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मे ऽभीतवन् मूढ शासनं किं बलो ऽत्यगाः ॥ 7 ॥
श्लोक 7.8.8
न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् । परे ऽवरे ऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ 8 ॥
श्लोक 7.8.9
स ईश्वरः काल उरुक्रमो ऽसाव् ओजः सहः सत्त्वबलेन्द्रियात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥ 9 ॥
श्लोक 7.8.10
जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋते ऽजितादात्मन उत्पथे स्थितात् तद्धि ह्यनन्तस्य महत् समर्हणम् ॥ 10 ॥
श्लोक 7.8.11
दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ॥ 11 ॥
श्लोक 7.8.12
व्यक्तं त्वं मर्तुकामो ऽसि यो ऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ 12 ॥
श्लोक 7.8.13
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ 13 ॥
श्लोक 7.8.14
सो ऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ 14 ॥
श्लोक 7.8.15
एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः । खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडातिबलः स्वमुष्टिना ॥ 15 ॥
श्लोक 7.8.16
तदैव तस्मिन् निनदो ऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ 16 ॥
श्लोक 7.8.17
स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥ 17 ॥
श्लोक 7.8.18
सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ 18 ॥
श्लोक 7.8.19
स सत्त्वमेनं परितो विपश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् । नायं मृगो नापि नरो विचित्रम् अहो किमेतन् नृमृगेन्द्ररूपम् ॥ 19 ॥
श्लोक 7.8.20
मीमांसमानस्य समुत्थितो ऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत् सटाकेशरजृम्भिताननम् ॥ 20 ॥
श्लोक 7.8.21
करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् ॥ 21 ॥
श्लोक 7.8.22
दिविस्पृशत् कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहैर् विष्वग् भुजानीकशतं नखायुधम् ॥ 22 ॥
श्लोक 7.8.23
दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् । प्रायेण मे ऽयं हरिणोरुमायिना वधः स्मृतो ऽनेन समुद्यतेन किम् ॥ 23 ॥
श्लोक 7.8.24
एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितो ऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सो ऽसुरस्तदा ॥ 24 ॥
श्लोक 7.8.25
न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत् तमः । ततो ऽभिपद्याभ्यहनन् महासुरो रुषा नृसिंहं गदयोरुवेगया ॥ 25 ॥
श्लोक 7.8.26
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥ 26 ॥
श्लोक 7.8.27
असाध्वमन्यन्त हृतौकसो ऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः । तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ॥ 27 ॥
श्लोक 7.8.28
तं श्येनवेगं शतचन्द्रवर्त्मभिश् चरन्तमच्छिद्रमुपर्यधो हरिः । कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ॥ 28 ॥
श्लोक 7.8.29
विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् व्यालो यथाखुं कुलिशाक्षतत्वचम् । द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥ 29 ॥
श्लोक 7.8.30
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया । असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ॥ 30 ॥
श्लोक 7.8.31
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरान् उदायुधान् । अहन् समस्तान् नखशस्त्रपाणिभिर् दोर्दण्डयूथो ऽनुपथान् सहस्रशः ॥ 31 ॥
श्लोक 7.8.32
सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ 32 ॥
श्लोक 7.8.33
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥ 33 ॥
श्लोक 7.8.34
ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥ 34 ॥
श्लोक 7.8.35
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥ 35 ॥
श्लोक 7.8.36
तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयो ऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥ 36 ॥
श्लोक 7.8.37
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः । ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ 37 ॥
श्लोक 7.8.38
मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ॥ 38 ॥
श्लोक 7.8.39
ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः । मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् । ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ॥ 39 ॥
श्लोक 7.8.40
नतो ऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते ऽव्ययात्मने ॥ 40 ॥
श्लोक 7.8.41
कोपकालो युगान्तस्ते हतो ऽयमसुरो ऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ 41 ॥
श्लोक 7.8.42
प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ 42 ॥
श्लोक 7.8.43
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्क्थ । तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ 43 ॥
श्लोक 7.8.44
श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु । तस्योदरान् नखविदीर्णवपाद्य आर्च्छत् तस्मै नमो नृहरये ऽखिलधर्मगोप्त्रे ॥ 44 ॥
श्लोक 7.8.45
यो नो गतिं योगसिद्धामसाधुर् अहार्षीद्योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ 45 ॥
श्लोक 7.8.46
विद्यां पृथग् धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ 46 ॥
श्लोक 7.8.47
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमो ऽस्तु ते ॥ 47 ॥
श्लोक 7.8.48
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ 48 ॥
श्लोक 7.8.49
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः ॥ 49 ॥
श्लोक 7.8.50
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ 50 ॥
श्लोक 7.8.51
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥ 51 ॥
श्लोक 7.8.52
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥ 52 ॥
श्लोक 7.8.53
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ 53 ॥
श्लोक 7.8.54
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन् यथामयः ॥ 54 ॥
श्लोक 7.8.55
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः । भवता हरे स वृजिनो ऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ 55 ॥
श्लोक 7.8.56
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सो ऽयं ते विधिकर ईश विप्रशप्तस् तस्येदं निधनमनुग्रहाय विद्मः ॥ 56 ॥