मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 9

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.9.1

एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः । नोपैतुमशकन् मन्यु संरम्भं सुदुरासदम् ॥ 1 ॥

श्लोक 7.9.2

साक्षात् श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ 2 ॥

श्लोक 7.9.3

प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके । तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ 3 ॥

श्लोक 7.9.4

तथेति शनकै राजन् महाभागवतो ऽर्भकः । उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ 4 ॥

श्लोक 7.9.5

स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् ॥ 5 ॥

श्लोक 7.9.6

स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ 6 ॥

श्लोक 7.9.7

अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ 7 ॥

श्लोक 7.9.8

ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः सत्त्वैकतानगतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ 8 ॥

श्लोक 7.9.9

मन्ये धनाभिजनरूपतपःश्रुतौजस् तेजःप्रभावबलपौरुषबुद्धियोगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय ॥ 9 ॥

श्लोक 7.9.10

विप्राद्द्विषड्गुणयुतादरविन्दनाभ पादारविन्दविमुखात् श्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भूरिमानः ॥ 10 ॥

श्लोक 7.9.11

नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज् जनो भगवते विदधीत मानं तच् चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ 11 ॥

श्लोक 7.9.12

तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम् । नीचो ऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमान् अनुवर्णितेन ॥ 12 ॥

श्लोक 7.9.13

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः । क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः ॥ 13 ॥

श्लोक 7.9.14

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या । लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ 14 ॥

श्लोक 7.9.15

नाहं बिभेम्यजित ते ऽतिभयानकास्य जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् । आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ 15 ॥

श्लोक 7.9.16

त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र संसारचक्रकदनाद्ग्रसतां प्रणीतः । बद्धः स्वकर्मभिरुशत्तम ते ऽङ्घ्रिमूलं प्रीतो ऽपवर्गशरणं ह्वयसे कदा नु ॥ 16 ॥

श्लोक 7.9.17

यस्मात् प्रियाप्रियवियोगसंयोगजन्म शोकाग्निना सकलयोनिषु दह्यमानः । दुःखौषधं तदपि दुःखमतद्धियाहं भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ 17 ॥

श्लोक 7.9.18

सो ऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चगीताः । अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥ 18 ॥

श्लोक 7.9.19

बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौः । तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ 19 ॥

श्लोक 7.9.20

यस्मिन् यतो यर्हि येन च यस्य यस्माद् यस्मै यथा यदुत यस्त्वपरः परो वा । भावः करोति विकरोति पृथक् स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ 20 ॥

श्लोक 7.9.21

माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः । छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज को ऽतितरेत् त्वदन्यः ॥ 21 ॥

श्लोक 7.9.22

स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः । चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ 22 ॥

श्लोक 7.9.23

दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् आयुः श्रियो विभव इच्छति यान् जनो ऽयम् । ये ऽस्मत् पितुः कुपितहासविजृम्भितभ्रू विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ 23 ॥

श्लोक 7.9.24

तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् । नेच्छामि ते विलुलितान् उरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ 24 ॥

श्लोक 7.9.25

कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः क्वेदं कलेवरमशेषरुजां विरोहः । निर्विद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैः शमयन् दुरापैः ॥ 25 ॥

श्लोक 7.9.26

क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन् मे ऽर्पितः शिरसि पद्मकरः प्रसादः ॥ 26 ॥

श्लोक 7.9.27

नैषा परावरमतिर्भवतो ननु स्याज् जन्तोर्यथात्मसुहृदो जगतस्तथापि । संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम् ॥ 27 ॥

श्लोक 7.9.28

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु यः प्रपतन् प्रसङ्गात् । कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः सो ऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ 28 ॥

श्लोक 7.9.29

मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् । खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् त्वामीश्वरो मदपरो ऽवतु कं हरामि ॥ 29 ॥

श्लोक 7.9.30

एकस्त्वमेव जगदेतममुष्य यत् त्वम् आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च । सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥ 30 ॥

श्लोक 7.9.31

त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था । यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वैतदेव वसुकालवदष्टितर्वोः ॥ 31 ॥

श्लोक 7.9.32

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेत्मना निजसुखानुभवो निरीहः । योगेन मीलितदृगात्मनिपीतनिद्रस् तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ 32 ॥

श्लोक 7.9.33

तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम् । अम्भस्यनन्तशयनाद्विरमत्समाधेर् नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ 33 ॥

श्लोक 7.9.34

तत्सम्भवः कविरतो ऽन्यदपश्यमानस् त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य । नाविन्ददब्दशतमप्सु निमज्जमानो जाते ऽङ्कुरे कथमुहोपलभेत बीजम् ॥ 34 ॥

श्लोक 7.9.35

स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं कालेन तीव्रतपसा परिशुद्धभावः । त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥ 35 ॥

श्लोक 7.9.36

एवं सहस्रवदनाङ्घ्रिशिरःकरोरु नासाद्यकर्णनयनाभरणायुधाढ्यम् । मायामयं सदुपलक्षितसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ 36 ॥

श्लोक 7.9.37

तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् वेदद्रुहावतिबलौ मधुकैटभाख्यौ । हत्वानयच् छ्रुतिगणांश्च रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ 37 ॥

श्लोक 7.9.38

इत्थं नृतिर्यगृषिदेवझषावतारैर् लोकान् विभावयसि हंसि जगत् प्रतीपान् । धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगो ऽथ स त्वम् ॥ 38 ॥

श्लोक 7.9.39

नैतन् मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् । कामातुरं हर्षशोकभयैषणार्तं तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ 39 ॥

श्लोक 7.9.40

जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणो ऽन्यतश्चपलदृक् क्व च कर्मशक्तिर् बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ 40 ॥

श्लोक 7.9.41

एवं स्वकर्मपतितं भववैतरण्याम् अन्योन्यजन्ममरणाशनभीतभीतम् । पश्यन् जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य ॥ 41 ॥

श्लोक 7.9.42

को न्वत्र ते ऽखिलगुरो भगवन् प्रयास उत्तारणे ऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनान् अनुसेवतां नः ॥ 42 ॥

श्लोक 7.9.43

नैवोद्विजे पर दुरत्ययवैतरण्यास् त्वद्वीर्यगायनमहामृतमग्नचित्तः । शोचे ततो विमुखचेतस इन्द्रियार्थ मायासुखाय भरमुद्वहतो विमूढान् ॥ 43 ॥

श्लोक 7.9.44

प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः । नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतो ऽनुपश्ये ॥ 44 ॥

श्लोक 7.9.45

यन् मैथुनादिगृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम् । तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन् मनसिजं विषहेत धीरः ॥ 45 ॥

श्लोक 7.9.46

मौनव्रतश्रुततपो ऽध्ययनस्वधर्म व्याख्यारहोजपसमाधय आपवर्ग्याः । प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ 46 ॥

श्लोक 7.9.47

रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ 47 ॥

श्लोक 7.9.48

त्वं वायुरग्निरवनिर्वियदम्बु मात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च । सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ 48 ॥

श्लोक 7.9.49

नैते गुणा न गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमर्त्याः । आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ 49 ॥

श्लोक 7.9.50

तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥ 50 ॥

श्लोक 7.9.51

एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः । प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥ 51 ॥

श्लोक 7.9.52

प्रह्राद भद्र भद्रं ते प्रीतो ऽहं ते ऽसुरोत्तम । वरं वृणीष्वाभिमतं कामपूरो ऽस्म्यहं नृणाम् ॥ 52 ॥

श्लोक 7.9.53

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे । दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ 53 ॥

श्लोक 7.9.54

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः । श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ 54 ॥

श्लोक 7.9.55

एवं प्रलोभ्यमानो ऽपि वरैर्लोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत् तान् असुरोत्तमः ॥ 55 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ