श्रीमद्भागवत अष्टम स्कन्ध अध्याय 1
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.1.1
स्वायम्भुवस्येह गुरो वंशो ऽयं विस्तराच् छ्रुतः । यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः ॥ 1 ॥
श्लोक 8.1.2
मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ 2 ॥
श्लोक 8.1.3
यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः । कृतवान् कुरुते कर्ता ह्य् अतीते ऽनागते ऽद्य वा ॥ 3 ॥
श्लोक 8.1.4
मनवो ऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ 4 ॥
श्लोक 8.1.5
आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः । धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ 5 ॥
श्लोक 8.1.6
कृतं पुरा भगवतः कपिलस्यानुवर्णितम् । आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह ॥ 6 ॥
श्लोक 8.1.7
विरक्तः कामभोगेषु शतरूपापतिः प्रभुः । विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ 7 ॥
श्लोक 8.1.8
सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् । तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ 8 ॥
श्लोक 8.1.9
येन चेतयते विश्वं विश्वं चेतयते न यम् । यो जागर्ति शयाने ऽस्मिन् नायं तं वेद वेद सः ॥ 9 ॥
श्लोक 8.1.10
आत्मावास्यमिदं विश्वं यत् किञ्चिज् जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ 10 ॥
श्लोक 8.1.11
यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ॥ 11 ॥
श्लोक 8.1.12
न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः । विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥ 12 ॥
श्लोक 8.1.13
स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः । धत्ते ऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥ 13 ॥
श्लोक 8.1.14
अथाग्रे ऋषयः कर्माण् ईहन्ते ऽकर्महेतवे । ईहमानो हि पुरुषः प्रायो ऽनीहां प्रपद्यते ॥ 14 ॥
श्लोक 8.1.15
ईहते भगवान् ईशो न हि तत्र विसज्जते । आत्मलाभेन पूर्णार्थो नावसीदन्ति ये ऽनु तम् ॥ 15 ॥
श्लोक 8.1.16
तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् । नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्ये ऽखिलधर्मभावनम् ॥ 16 ॥
श्लोक 8.1.17
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् । दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ 17 ॥
श्लोक 8.1.18
तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः । यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ 18 ॥
श्लोक 8.1.19
स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो ऽभवत् । द्युमत्सुषेणरोचिष्मत् प्रमुखास्तस्य चात्मजाः ॥ 19 ॥
श्लोक 8.1.20
तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः । ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ 20 ॥
श्लोक 8.1.21
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्य् अभूत् । तस्यां जज्ञे ततो देवो विभुरित्य् अभिविश्रुतः ॥ 21 ॥
श्लोक 8.1.22
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ 22 ॥
श्लोक 8.1.23
तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप ॥ 23 ॥
श्लोक 8.1.24
वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ 24 ॥
श्लोक 8.1.25
धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ 25 ॥
श्लोक 8.1.26
सो ऽनृतव्रतदुःशीलान् असतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः ॥ 26 ॥
श्लोक 8.1.27
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः ख्यातिर्नरः केतुरित्य् आद्या दश तत्सुताः ॥ 27 ॥
श्लोक 8.1.28
सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसे ऽन्तरे ॥ 28 ॥
श्लोक 8.1.29
देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ 29 ॥
श्लोक 8.1.30
तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः । हरिरित्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ 30 ॥
श्लोक 8.1.31
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ 31 ॥
श्लोक 8.1.32
तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ 32 ॥
श्लोक 8.1.33
परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ॥ 33 ॥