मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 2

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.2.1

आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ 1 ॥

श्लोक 8.2.2

तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ 2 ॥

श्लोक 8.2.3

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ 3 ॥

श्लोक 8.2.4

स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः । करोति श्यामलां भूमिं हरिन्मरकताश्मभिः ॥ 4 ॥

श्लोक 8.2.5

सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः । किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ 5 ॥

श्लोक 8.2.6

यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ 6 ॥

श्लोक 8.2.7

नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः । चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः ॥ 7 ॥

श्लोक 8.2.8

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः । देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ 8 ॥

श्लोक 8.2.9

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः । उद्यानमृतुमन् नाम आक्रीडं सुरयोषिताम् ॥ 9 ॥

श्लोक 8.2.10

सर्वतो ऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः । मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ 10 ॥

श्लोक 8.2.11

चूतैः पियालैः पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ॥ 11 ॥

श्लोक 8.2.12

मधुकैः शालतालैश्च तमालैरसनार्जुनैः । अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ 12 ॥

श्लोक 8.2.13

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः ॥ 13 ॥

श्लोक 8.2.14

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः । तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ 14 ॥

श्लोक 8.2.15

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ 15 ॥

श्लोक 8.2.16

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ 16 ॥

श्लोक 8.2.17

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः । कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ 17 ॥

श्लोक 8.2.18

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः । कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ 18 ॥

श्लोक 8.2.19

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ 19 ॥

श्लोक 8.2.20

तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ 20 ॥

श्लोक 8.2.21

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः । महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः ॥ 21 ॥

श्लोक 8.2.22

वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणाः शशादयश् चरन्त्य् अभीता यदनुग्रहेण ॥ 22 ॥

श्लोक 8.2.23

स घर्मतप्तः करिभिः करेणुभिर् वृतो मदच्युत्करभैरनुद्रुतः । गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणो ऽलिकुलैर्मदाशनैः ॥ 23 ॥

श्लोक 8.2.24

सरो ऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः । वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्द्रुतम् ॥ 24 ॥

श्लोक 8.2.25

विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः ॥ 25 ॥

श्लोक 8.2.26

स पुष्करेणोद्धृतशीकराम्बुभिर् निपाययन् संस्नपयन् यथा गृही । घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणो ऽजमायया ॥ 26 ॥

श्लोक 8.2.27

तं तत्र कश्चिन् नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो यथाबलं सो ऽतिबलो विचक्रमे ॥ 27 ॥

श्लोक 8.2.28

तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियो ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ 28 ॥

श्लोक 8.2.29

नियुध्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः । समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ 29 ॥

श्लोक 8.2.30

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् अभूद्व्ययः । विकृष्यमाणस्य जले ऽवसीदतो विपर्ययो ऽभूत् सकलं जलौकसः ॥ 30 ॥

श्लोक 8.2.31

इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ 31 ॥

श्लोक 8.2.32

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो ऽप्य् अहं च तं यामि परं परायणम् ॥ 32 ॥

श्लोक 8.2.33

यः कश्चनेशो बलिनो ऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भयान् मृत्युः प्रधावत्य् अरणं तमीमहि ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ