श्रीमद्भागवत अष्टम स्कन्ध अध्याय 11
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.11.1
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादयस् तांस्तान् रणे यैरभिसंहताः पुरा ॥ 1 ॥
श्लोक 8.11.2
वैरोचनाय संरब्धो भगवान् पाकशासनः । उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ 2 ॥
श्लोक 8.11.3
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ 3 ॥
श्लोक 8.11.4
नटवन् मूढ मायाभिर्मायेशान् नो जिगीषसि । जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ 4 ॥
श्लोक 8.11.5
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदादधः ॥ 5 ॥
श्लोक 8.11.6
सो ऽहं दुर्मायिनस्ते ऽद्य वज्रेण शतपर्वणा । शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥ 6 ॥
श्लोक 8.11.7
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् । कीर्तिर्जयो ऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ 7 ॥
श्लोक 8.11.8
तदिदं कालरशनं जगत् पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ 8 ॥
श्लोक 8.11.9
न वयं मन्यमानानामात्मानं तत्र साधनम् । गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥ 9 ॥
श्लोक 8.11.10
इत्य् आक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः । आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः ॥ 10 ॥
श्लोक 8.11.11
एवं निराकृतो देवो वैरिणा तथ्यवादिना । नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः ॥ 11 ॥
श्लोक 8.11.12
प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः । सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥ 12 ॥
श्लोक 8.11.13
सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् । अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ 13 ॥
श्लोक 8.11.14
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा । जत्रावताडयच् छक्रं गजं च सुमहाबलः ॥ 14 ॥
श्लोक 8.11.15
गदाप्रहारव्यथितो भृशं विह्वलितो गजः । जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ 15 ॥
श्लोक 8.11.16
ततो रथो मातलिना हरिभिर्दशशतैर्वृतः । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ 16 ॥
श्लोक 8.11.17
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः । शूलेन ज्वलता तं तु स्मयमानो ऽहनन् मृधे ॥ 17 ॥
श्लोक 8.11.18
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः । इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः ॥ 18 ॥
श्लोक 8.11.19
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः । नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥ 19 ॥
श्लोक 8.11.20
वचोभिः परुषैरिन्द्रमर्दयन्तो ऽस्य मर्मसु । शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ 20 ॥
श्लोक 8.11.21
हरीन् दशशतान्य् आजौ हर्यश्वस्य बलः शरैः । तावद्भिरर्दयामास युगपल् लघुहस्तवान् ॥ 21 ॥
श्लोक 8.11.22
शताभ्यां मातलिं पाको रथं सावयवं पृथक् । सकृत् सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥ 22 ॥
श्लोक 8.11.23
नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः । आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥ 23 ॥
श्लोक 8.11.24
सर्वतः शरकूटेन शक्रं सरथसारथिम् । छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ 24 ॥
श्लोक 8.11.25
अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः । अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे ॥ 25 ॥
श्लोक 8.11.26
ततस्तुराषाड् इषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः । बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥ 26 ॥
श्लोक 8.11.27
निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे । उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ 27 ॥
श्लोक 8.11.28
स तेनैवाष्टधारेण शिरसी बलपाकयोः । ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ 28 ॥
श्लोक 8.11.29
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः । जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ 29 ॥
श्लोक 8.11.30
अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । प्रगृह्याभ्यद्रवत् क्रुद्धो हतो ऽसीति वितर्जयन् । प्राहिणोद्देवराजाय निनदन् मृगराड् इव ॥ 30 ॥
श्लोक 8.11.31
तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा । तमाहनन् नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ 31 ॥
श्लोक 8.11.32
न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः । तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा ॥ 32 ॥
श्लोक 8.11.33
तस्मादिन्द्रो ऽबिभेच् छत्रोर्वज्रः प्रतिहतो यतः । किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ 33 ॥
श्लोक 8.11.34
येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ 34 ॥
श्लोक 8.11.35
तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः । अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ 35 ॥
श्लोक 8.11.36
सो ऽयं प्रतिहतो वज्रो मया मुक्तो ऽसुरे ऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजो ऽप्य् अकारणम् ॥ 36 ॥
श्लोक 8.11.37
इति शक्रं विषीदन्तमाह वाग् अशरीरिणी । नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ 37 ॥
श्लोक 8.11.38
मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतो ऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ 38 ॥
श्लोक 8.11.39
तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः । ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ 39 ॥
श्लोक 8.11.40
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ 40 ॥
श्लोक 8.11.41
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू । देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ 41 ॥
श्लोक 8.11.42
अन्ये ऽप्य् एवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः । सूदयामासुरसुरान् मृगान् केसरिणो यथा ॥ 42 ॥
श्लोक 8.11.43
ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप । वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ 43 ॥
श्लोक 8.11.44
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः । श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ 44 ॥
श्लोक 8.11.45
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः । उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ 45 ॥
श्लोक 8.11.46
ये ऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते । बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ 46 ॥
श्लोक 8.11.47
तत्राविनष्टावयवान् विद्यमानशिरोधरान् । उशना जीवयामास संजीवन्या स्वविद्यया ॥ 47 ॥
श्लोक 8.11.48
बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः । पराजितो ऽपि नाखिद्यल् लोकतत्त्वविचक्षणः ॥ 48 ॥