मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 10

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.10.1

इति दानवदैतेया नाविन्दन्नमृतं नृप । युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥ 1 ॥

श्लोक 8.10.2

साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् । पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ 2 ॥

श्लोक 8.10.3

सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः । अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ 3 ॥

श्लोक 8.10.4

ततः सुरगणाः सर्वे सुधया पीतयैधिताः । प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥ 4 ॥

श्लोक 8.10.5

तत्र दैवासुरो नाम रणः परमदारुणः । रोधस्य् उदन्वतो राजंस्तुमुलो रोमहर्षणः ॥ 5 ॥

श्लोक 8.10.6

तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे । समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ 6 ॥

श्लोक 8.10.7

शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् । हस्त्यश्वरथपत्तीनां नदतां निस्वनो ऽभवत् ॥ 7 ॥

श्लोक 8.10.8

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः । हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ 8 ॥

श्लोक 8.10.9

उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ 9 ॥

श्लोक 8.10.10

गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः । शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ 10 ॥

श्लोक 8.10.11

शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः । बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ 11 ॥

श्लोक 8.10.12

अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः । सेनयोरुभयो राजन् विविशुस्ते ऽग्रतो ऽग्रतः ॥ 12 ॥

श्लोक 8.10.13

चित्रध्वजपटै राजन्नातपत्रैः सितामलैः । महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥ 13 ॥

श्लोक 8.10.14

वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः । स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ 14 ॥

श्लोक 8.10.15

देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन । रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ 15 ॥

श्लोक 8.10.16

वैरोचनो बलिः सङ्ख्ये सो ऽसुराणां चमूपतिः । यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ 16 ॥

श्लोक 8.10.17

सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो । अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ 17 ॥

श्लोक 8.10.18

आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः । बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ 18 ॥

श्लोक 8.10.19

तस्यासन् सर्वतो यानैर्यूथानां पतयो ऽसुराः । नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ 19 ॥

श्लोक 8.10.20

द्विमूर्धा कालनाभो ऽथ प्रहेतिर्हेतिरिल्वलः । शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ 20 ॥

श्लोक 8.10.21

हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः । तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ 21 ॥

श्लोक 8.10.22

अरिष्टो ऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः । अन्ये पौलोमकालेया निवातकवचादयः ॥ 22 ॥

श्लोक 8.10.23

अलब्धभागाः सोमस्य केवलं क्लेशभागिनः । सर्व एते रणमुखे बहुशो निर्जितामराः ॥ 23 ॥

श्लोक 8.10.24

सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् । दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् ॥ 24 ॥

श्लोक 8.10.25

ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् । यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ 25 ॥

श्लोक 8.10.26

तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः । लोकपालाः सहगणैर्वाय्वग्निवरुणादयः ॥ 26 ॥

श्लोक 8.10.27

ते ऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः । आह्वयन्तो विशन्तो ऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ 27 ॥

श्लोक 8.10.28

युयोध बलिरिन्द्रेण तारकेण गुहो ऽस्यत । वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना ॥ 28 ॥

श्लोक 8.10.29

यमस्तु कालनाभेन विश्वकर्मा मयेन वै । शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ 29 ॥

श्लोक 8.10.30

अपराजितेन नमुचिरश्विनौ वृषपर्वणा । सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ 30 ॥

श्लोक 8.10.31

राहुणा च तथा सोमः पुलोम्ना युयुधे ऽनिलः । निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ 31 ॥

श्लोक 8.10.32

वृषाकपिस्तु जम्भेन महिषेण विभावसुः । इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ 32 ॥

श्लोक 8.10.33

कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह । बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥ 33 ॥

श्लोक 8.10.34

मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः । विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ 34 ॥

श्लोक 8.10.35

त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः । अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः ॥ 35 ॥

श्लोक 8.10.36

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि । निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ 36 ॥

श्लोक 8.10.37

गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः । निकृत्तबाहूरुशिरोधराङ्घ्रयश् छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ 37 ॥

श्लोक 8.10.38

तेषां पदाघातरथाङ्गचूर्णिताद् आयोधनादुल्बण उत्थितस्तदा । रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥ 38 ॥

श्लोक 8.10.39

शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः । महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ 39 ॥

श्लोक 8.10.40

कबन्धास्तत्र चोत्पेतुः पतितस्वशिरो ऽक्षिभिः । उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ 40 ॥

श्लोक 8.10.41

बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः । चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत् ॥ 41 ॥

श्लोक 8.10.42

स तान् आपततः शक्रस्तावद्भिः शीघ्रविक्रमः । चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥ 42 ॥

श्लोक 8.10.43

तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे । तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ 43 ॥

श्लोक 8.10.44

ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः । यद्यच् छस्त्रं समादद्यात् सर्वं तदच्छिनद्विभुः ॥ 44 ॥

श्लोक 8.10.45

ससर्जाथासुरीं मायामन्तर्धानगतो ऽसुरः । ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो ॥ 45 ॥

श्लोक 8.10.46

ततो निपेतुस्तरवो दह्यमाना दवाग्निना । शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ 46 ॥

श्लोक 8.10.47

महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः । सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः ॥ 47 ॥

श्लोक 8.10.48

यातुधान्यश्च शतशः शूलहस्ता विवाससः । छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥ 48 ॥

श्लोक 8.10.49

ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः । अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ 49 ॥

श्लोक 8.10.50

सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः । सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ 50 ॥

श्लोक 8.10.51

ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत । प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः ॥ 51 ॥

श्लोक 8.10.52

एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे । सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ 52 ॥

श्लोक 8.10.53

न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप । ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ॥ 53 ॥

श्लोक 8.10.54

ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः । अदृश्यताष्टायुधबाहुरुल्लसच् छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ 54 ॥

श्लोक 8.10.55

तस्मिन् प्रविष्टे ऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः । स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ 55 ॥

श्लोक 8.10.56

दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः । तल् लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन् नृप सवाहमरिं त्र्यधीशः ॥ 56 ॥

श्लोक 8.10.57

माली सुमाल्य् अतिबलौ युधि पेततुर्यच् चक्रेण कृत्तशिरसावथ माल्यवांस्तम् । आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच् छिरो ऽच्छिनदरेर्नदतो ऽरिणाद्यः ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ