श्रीमद्भागवत अष्टम स्कन्ध अध्याय 13
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.13.1
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ 1 ॥
श्लोक 8.13.2
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तो ऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ 2 ॥
श्लोक 8.13.3
तरूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः । मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ 3 ॥
श्लोक 8.13.4
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ 4 ॥
श्लोक 8.13.5
कश्यपो ऽत्रिर्वसिष्ठश्च विश्वामित्रो ऽथ गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ 5 ॥
श्लोक 8.13.6
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् । आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ 6 ॥
श्लोक 8.13.7
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ 7 ॥
श्लोक 8.13.8
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥ 8 ॥
श्लोक 8.13.9
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् छृणु ॥ 9 ॥
श्लोक 8.13.10
सावर्णिस्तपती कन्या भार्या संवरणस्य या । शनैश्चरस्तृतीयो ऽभूदश्विनौ वडवात्मजौ ॥ 10 ॥
श्लोक 8.13.11
अष्टमे ऽन्तर आयाते सावर्णिर्भविता मनुः । निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ 11 ॥
श्लोक 8.13.12
तत्र देवाः सुतपसो विरजा अमृतप्रभाः । तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ 12 ॥
श्लोक 8.13.13
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् । राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ 13 ॥
श्लोक 8.13.14
यो ऽसौ भगवता बद्धः प्रीतेन सुतले पुनः । निवेशितो ऽधिके स्वर्गादधुनास्ते स्वराड् इव ॥ 14 ॥
श्लोक 8.13.15
गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा । ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥ 15 ॥
श्लोक 8.13.16
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः । इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ 16 ॥
श्लोक 8.13.17
देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः । स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ 17 ॥
श्लोक 8.13.18
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः । भूतकेतुर्दीप्तकेतुरित्य् आद्यास्तत्सुता नृप ॥ 18 ॥
श्लोक 8.13.19
पारामरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः । द्युतिमत्प्रमुखास्तत्र भविष्यन्त्य् ऋषयस्ततः ॥ 19 ॥
श्लोक 8.13.20
आयुष्मतो ऽम्बुधारायामृषभो भगवत्कला । भविता येन संराद्धां त्रिलोकीं भोक्ष्यते ऽद्भुतः ॥ 20 ॥
श्लोक 8.13.21
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः । तत्सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः ॥ 21 ॥
श्लोक 8.13.22
हविष्मान् सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ 22 ॥
श्लोक 8.13.23
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ 23 ॥
श्लोक 8.13.24
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् । अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ 24 ॥
श्लोक 8.13.25
विहङ्गमाः कामगमा निर्वाणरुचयः सुराः । इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ 25 ॥
श्लोक 8.13.26
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः । वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ 26 ॥
श्लोक 8.13.27
भविता रुद्रसावर्णी राजन् द्वादशमो मनुः । देववान् उपदेवश्च देवश्रेष्ठादयः सुताः ॥ 27 ॥
श्लोक 8.13.28
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः । ऋषयश्च तपोमूर्तिस्तपस्व्य् आग्नीध्रकादयः ॥ 28 ॥
श्लोक 8.13.29
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः । अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ 29 ॥
श्लोक 8.13.30
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् । चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ 30 ॥
श्लोक 8.13.31
देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः । निर्मोकतत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस्तदा ॥ 31 ॥
श्लोक 8.13.32
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ 32 ॥
श्लोक 8.13.33
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति । उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः ॥ 33 ॥
श्लोक 8.13.34
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति । अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ 34 ॥
श्लोक 8.13.35
सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः । वितानायां महाराज क्रियातन्तून् वितायिता ॥ 35 ॥
श्लोक 8.13.36
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्य् एभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ 36 ॥