मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 14

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.14.1

मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ 1 ॥

श्लोक 8.14.2

मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ 2 ॥

श्लोक 8.14.3

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । मन्वादयो जगद्यात्रां नयन्त्य् आभिः प्रचोदिताः ॥ 3 ॥

श्लोक 8.14.4

चतुर्युगान्ते कालेन ग्रस्तान् छ्रुतिगणान् यथा । तपसा ऋषयो ऽपश्यन् यतो धर्मः सनातनः ॥ 4 ॥

श्लोक 8.14.5

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप ॥ 5 ॥

श्लोक 8.14.6

पालयन्ति प्रजापाला यावदन्तं विभागशः । यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥ 6 ॥

श्लोक 8.14.7

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ 7 ॥

श्लोक 8.14.8

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ 8 ॥

श्लोक 8.14.9

सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः । कालरूपेण सर्वेषामभावाय पृथग् गुणः ॥ 9 ॥

श्लोक 8.14.10

स्तूयमानो जनैरेभिर्मायया नामरूपया । विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ 10 ॥

श्लोक 8.14.11

एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । यत्र मन्वन्तराण्य् आहुश्चतुर्दश पुराविदः ॥ 11 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ