श्रीमद्भागवत अष्टम स्कन्ध अध्याय 24
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.24.1
भगवन् छ्रोतुमिच्छामि हरेरद्भुतकर्मणः । अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ 1 ॥
श्लोक 8.24.2
यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् । तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ 2 ॥
श्लोक 8.24.3
एतन् नो भगवन् सर्वं यथावद्वक्तुमर्हसि । उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ 3 ॥
श्लोक 8.24.4
इत्य् उक्तो विष्णुरातेन भगवान् बादरायणिः । उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ 4 ॥
श्लोक 8.24.5
गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ 5 ॥
श्लोक 8.24.6
उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ 6 ॥
श्लोक 8.24.7
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ 7 ॥
श्लोक 8.24.8
कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । मुखतो निःसृतान् वेदान् हयग्रीवो ऽन्तिके ऽहरत् ॥ 8 ॥
श्लोक 8.24.9
ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ 9 ॥
श्लोक 8.24.10
तत्र राजऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् । नारायणपरो ऽतपत् तपः स सलिलाशनः ॥ 10 ॥
श्लोक 8.24.11
यो ऽसावस्मिन् महाकल्पे तनयः स विवस्वतः । श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ 11 ॥
श्लोक 8.24.12
एकदा कृतमालायां कुर्वतो जलतर्पणम् । तस्याञ्जल्युदके काचिच् छफर्य् एकाभ्यपद्यत ॥ 12 ॥
श्लोक 8.24.13
सत्यव्रतो ऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ 13 ॥
श्लोक 8.24.14
तमाह सातिकरुणं महाकारुणिकं नृपम् । यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ 14 ॥
श्लोक 8.24.15
तमात्मनो ऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ 15 ॥
श्लोक 8.24.16
तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः । कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ 16 ॥
श्लोक 8.24.17
सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् ॥ 17 ॥
श्लोक 8.24.18
नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ 18 ॥
श्लोक 8.24.19
स एनां तत आदाय न्यधादौदञ्चनोदके । तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ 19 ॥
श्लोक 8.24.20
न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥ 20 ॥
श्लोक 8.24.21
तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तदावृत्यात्मना सो ऽयं महामीनो ऽन्ववर्धत ॥ 21 ॥
श्लोक 8.24.22
नैतन् मे स्वस्तये राजन्नुदकं सलिलौकसः । निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ 22 ॥
श्लोक 8.24.23
इत्य् उक्तः सो ऽनयन् मत्स्यं तत्र तत्राविदासिनि । जलाशये ऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् ॥ 23 ॥
श्लोक 8.24.24
क्षिप्यमाणस्तमाहेदमिह मां मकरादयः । अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ 24 ॥
श्लोक 8.24.25
एवं विमोहितस्तेन वदता वल्गुभारतीम् । तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ 25 ॥
श्लोक 8.24.26
नैवं वीर्यो जलचरो दृष्टो ऽस्माभिः श्रुतो ऽपि वा । यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥ 26 ॥
श्लोक 8.24.27
नूनं त्वं भगवान् साक्षाद्धरिर्नारायणो ऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ 27 ॥
श्लोक 8.24.28
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्मगतिर्विभो ॥ 28 ॥
श्लोक 8.24.29
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्य् अदो रूपं यदर्थं भवता धृतम् ॥ 29 ॥
श्लोक 8.24.30
न ते ऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सताम् अदीदृशो यद्वपुरद्भुतं हि नः ॥ 30 ॥
श्लोक 8.24.31
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवे ऽब्रवीच् चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ 31 ॥
श्लोक 8.24.32
सप्तमे ह्य् अद्यतनादूर्ध्वमहन्य् एतदरिन्दम । निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ 32 ॥
श्लोक 8.24.33
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥ 33 ॥
श्लोक 8.24.34
त्वं तावदोषधीः सर्वा बीजान्य् उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ 34 ॥
श्लोक 8.24.35
आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः । एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ 35 ॥
श्लोक 8.24.36
दोधूयमानां तां नावं समीरेण बलीयसा । उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ 36 ॥
श्लोक 8.24.37
अहं त्वामृषिभिः सार्धं सहनावमुदन्वति । विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ 37 ॥
श्लोक 8.24.38
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ 38 ॥
श्लोक 8.24.39
इत्थमादिश्य राजानं हरिरन्तरधीयत । सो ऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ 39 ॥
श्लोक 8.24.40
आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ 40 ॥
श्लोक 8.24.41
ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ 41 ॥
श्लोक 8.24.42
ध्यायन् भगवदादेशं ददृशे नावमागताम् । तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ 42 ॥
श्लोक 8.24.43
तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । स वै नः सङ्कटादस्मादविता शं विधास्यति ॥ 43 ॥
श्लोक 8.24.44
सो ऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ 44 ॥
श्लोक 8.24.45
निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा । वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ 45 ॥
श्लोक 8.24.46
अनाद्यविद्योपहतात्मसंविदस् तन्मूलसंसारपरिश्रमातुराः । यदृच्छयोपसृता यमाप्नुयुर् विमुक्तिदो नः परमो गुरुर्भवान् ॥ 46 ॥
श्लोक 8.24.47
जनो ऽबुधो ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते ऽसुखम् । यत्सेवया तां विधुनोत्य् असन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥ 47 ॥
श्लोक 8.24.48
यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः । भजेत वर्णं निजमेष सो ऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ 48 ॥
श्लोक 8.24.49
न यत्प्रसादायुतभागलेशम् अन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं त्वां शरणं प्रपद्ये ॥ 49 ॥
श्लोक 8.24.50
अचक्षुरन्धस्य यथाग्रणीः कृतस् तथा जनस्याविदुषो ऽबुधो गुरुः । त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ 50 ॥
श्लोक 8.24.51
जनो जनस्यादिशते ऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः । त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ 51 ॥
श्लोक 8.24.52
त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्य् आत्मा गुरुर्ज्ञानमभीष्टसिद्धिः । तथापि लोको न भवन्तमन्धधीर् जानाति सन्तं हृदि बद्धकामः ॥ 52 ॥
श्लोक 8.24.53
तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय । छिन्ध्य् अर्थदीपैर्भगवन् वचोभिर् ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ 53 ॥
श्लोक 8.24.54
इत्य् उक्तवन्तं नृपतिं भगवान् आदिपूरुषः । मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ 54 ॥
श्लोक 8.24.55
पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् । सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ 55 ॥
श्लोक 8.24.56
अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् । नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ 56 ॥
श्लोक 8.24.57
अतीतप्रलयापाय उत्थिताय स वेधसे । हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥ 57 ॥
श्लोक 8.24.58
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादात् कल्पे ऽस्मिन्नासीद्वैवस्वतो मनुः ॥ 58 ॥
श्लोक 8.24.59
सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः । संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ 59 ॥
श्लोक 8.24.60
अवतारं हरेर्यो ऽयं कीर्तयेदन्वहं नरः । सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ 60 ॥
श्लोक 8.24.61
प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा &अम्प्; दितिजमकथयद्यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतो ऽस्मि ॥ 61 ॥