मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 23

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.23.1

इत्य् उक्तवन्तं पुरुषं पुरातनं महानुभावो ऽखिलसाधुसम्मतः । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ 1 ॥

श्लोक 8.23.2

अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल् लोकपालैस्त्वदनुग्रहो ऽमरैर् अलब्धपूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥ 2 ॥

श्लोक 8.23.3

इत्य् उक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ 3 ॥

श्लोक 8.23.4

एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादितेः काममशासत् सकलं जगत् ॥ 4 ॥

श्लोक 8.23.5

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ 5 ॥

श्लोक 8.23.6

नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ऽन्ये । यन् नो ऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ 6 ॥

श्लोक 8.23.7

यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः &अम्प्; कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ 7 ॥

श्लोक 8.23.8

चित्रं तवेहितमहो ऽमितयोगमाया लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मनः समदृशो ऽविषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ 8 ॥

श्लोक 8.23.9

वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ 9 ॥

श्लोक 8.23.10

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ 10 ॥

श्लोक 8.23.11

आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । बाढमित्य् अमलप्रज्ञो मूर्ध्न्य् आधाय कृताञ्जलिः ॥ 11 ॥

श्लोक 8.23.12

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ 12 ॥

श्लोक 8.23.13

अथाहोशनसं राजन् हरिर्नारायणो ऽन्तिके । आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ 13 ॥

श्लोक 8.23.14

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ 14 ॥

श्लोक 8.23.15

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ 15 ॥

श्लोक 8.23.16

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ 16 ॥

श्लोक 8.23.17

तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् । एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् ॥ 17 ॥

श्लोक 8.23.18

प्रतिनन्द्य हरेराज्ञामुशना भगवान् इति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ 18 ॥

श्लोक 8.23.19

एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् ॥ 19 ॥

श्लोक 8.23.20

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ 20 ॥

श्लोक 8.23.21

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानामकरोद्वामनं पतिम् ॥ 21 ॥

श्लोक 8.23.22

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ 22 ॥

श्लोक 8.23.23

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ 23 ॥

श्लोक 8.23.24

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ 24 ॥

श्लोक 8.23.25

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ 25 ॥

श्लोक 8.23.26

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ 26 ॥

श्लोक 8.23.27

सुमहत् कर्म तद्विष्णोर्गायन्तः परमद्भुतम् । धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ 27 ॥

श्लोक 8.23.28

सर्वमेतन् मयाख्यातं भवतः कुलनन्दन । उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ 28 ॥

श्लोक 8.23.29

पारं महिम्न उरुविक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः &अम्प्; किं जायमान उत जात उपैति मर्त्य इत्य् आह मन्त्रदृग् ऋषिः पुरुषस्य यस्य ॥ 29 ॥

श्लोक 8.23.30

य इदं देवदेवस्य हरेरद्भुतकर्मणः । अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ 30 ॥

श्लोक 8.23.31

क्रियमाणे कर्मणीदं दैवे पित्र्ये ऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः ॥ 31 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ