मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 7

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.7.1

ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ 1 ॥

श्लोक 8.7.2

आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज् जगृहे पूर्वं देवास्ततो ऽभवन् ॥ 2 ॥

श्लोक 8.7.3

तन् नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ 3 ॥

श्लोक 8.7.4

स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः । इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः । स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ 4 ॥

श्लोक 8.7.6

कृतस्थानविभागास्त एवं कश्यपनन्दनाः । ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ॥ 6 ॥

श्लोक 8.7.7

मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्य् अपो ऽविशत् । ध्रियमाणो ऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥ 7 ॥

श्लोक 8.7.8

ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः । आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ 8 ॥

श्लोक 8.7.9

विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्यो ऽवितथाभिसन्धिः । कृत्वा वपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥ 9 ॥

श्लोक 8.7.10

तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् ॥ 10 ॥

श्लोक 8.7.11

सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बिभ्रत् तदावर्तनमादिकच्छपो मेने ऽङ्गकण्डूयनमप्रमेयः ॥ 11 ॥

श्लोक 8.7.12

तथासुरान् आविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन् देवगणांश्च विष्णुर् दैवेन नागेन्द्रमबोधरूपः ॥ 12 ॥

श्लोक 8.7.13

उपर्य् अगेन्द्रं गिरिराड् इवान्य आक्रम्य हस्तेन सहस्रबाहुः । तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैर् अभिष्टुवद्भिः सुमनो ऽभिवृष्टः ॥ 13 ॥

श्लोक 8.7.14

उपर्य् अधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥ 14 ॥

श्लोक 8.7.15

अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसो ऽसुराः । पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् ॥ 15 ॥

श्लोक 8.7.16

देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् । समभ्यवर्षन् भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः ॥ 16 ॥

श्लोक 8.7.17

मथ्यमानात् तथा सिन्धोर् देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ 17 ॥

श्लोक 8.7.18

मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः &अम्प्; जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ 18 ॥

श्लोक 8.7.19

निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ 19 ॥

श्लोक 8.7.20

तदुग्रवेगं दिशि दिश्य् उपर्य् अधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ 20 ॥

श्लोक 8.7.21

विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रावपवर्गहेतोस् तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ 21 ॥

श्लोक 8.7.22

देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ 22 ॥

श्लोक 8.7.23

त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ 23 ॥

श्लोक 8.7.24

गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो । धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ 24 ॥

श्लोक 8.7.25

त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ 25 ॥

श्लोक 8.7.26

त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः । कालः क्रतुः सत्यमृतं च धर्मस् त्वय्य् अक्षरं यत् त्रिवृदामनन्ति ॥ 26 ॥

श्लोक 8.7.27

अग्निर्मुखं ते ऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं ते ऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् ॥ 27 ॥

श्लोक 8.7.28

नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते ॥ 28 ॥

श्लोक 8.7.29

कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात् तव सप्त धातवस् त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ 29 ॥

श्लोक 8.7.30

मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत् तच् छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ॥ 30 ॥

श्लोक 8.7.31

छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ॥ 31 ॥

श्लोक 8.7.32

न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ 32 ॥

श्लोक 8.7.33

कामाध्वरत्रिपुरकालगराद्यनेक भूतद्रुहः क्षपयतः स्तुतये न तत् ते &अम्प्; यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ 33 ॥

श्लोक 8.7.34

ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि द्वन्द्वं चरन्तमुमया तपसाभितप्तम् । कत्थन्त उग्रपरुषं निरतं श्मशाने ते नूनमूतिमविदंस्तव हातलज्जाः ॥ 34 ॥

श्लोक 8.7.35

तत् तस्य ते सदसतोः परतः परस्य नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः । ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ 35 ॥

श्लोक 8.7.36

एतत् परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्ते ऽव्यक्तकर्मणः ॥ 36 ॥

श्लोक 8.7.37

तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः । सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥ 37 ॥

श्लोक 8.7.38

अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् । क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ 38 ॥

श्लोक 8.7.39

आसां प्राणपरीप्सूनां विधेयमभयं हि मे । एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥ 39 ॥

श्लोक 8.7.40

प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः । बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ 40 ॥

श्लोक 8.7.41

पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीये ऽहं सचराचरः । तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ 41 ॥

श्लोक 8.7.42

एवमामन्त्र्य भगवान् भवानीं विश्वभावनः । तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ 42 ॥

श्लोक 8.7.43

ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन् महादेवः कृपया भूतभावनः ॥ 43 ॥

श्लोक 8.7.44

तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः । यच् चकार गले नीलं तच् च साधोर्विभूषणम् ॥ 44 ॥

श्लोक 8.7.45

तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ 45 ॥

श्लोक 8.7.46

निशम्य कर्म तच् छम्भोर्देवदेवस्य मीढुषः । प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ 46 ॥

श्लोक 8.7.47

प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज् जगृहुः स्म तत् । वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये ऽपरे ॥ 47 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ