श्रीमद्भागवत अष्टम स्कन्ध अध्याय 6
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.6.1
एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः । तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥ 1 ॥
श्लोक 8.6.2
तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन् खं दिशः क्षौणीमात्मानं च कुतो विभुम् ॥ 2 ॥
श्लोक 8.6.3
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ 3 ॥
श्लोक 8.6.4
तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ 4 ॥
श्लोक 8.6.5
महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ 5 ॥
श्लोक 8.6.6
काञ्चीकलापवलय हारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ 6 ॥
श्लोक 8.6.7
सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् । तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् । सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥ 7 ॥
श्लोक 8.6.8
अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्ने ऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ 8 ॥
श्लोक 8.6.9
रूपं तवैतत् पुरुषर्षभेज्यं श्रेयो ऽर्थिभिर्वैदिकतान्त्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्य् अमुष्मिन्नु ह विश्वमूर्तौ ॥ 9 ॥
श्लोक 8.6.10
त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् त्वय्य् अन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतो ऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥ 10 ॥
श्लोक 8.6.11
त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवाये ऽप्य् अगुणं विपश्चितः ॥ 11 ॥
श्लोक 8.6.12
यथाग्निमेधस्य् अमृतं च गोषु भुव्य् अन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ 12 ॥
श्लोक 8.6.13
तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥ 13 ॥
श्लोक 8.6.14
स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ 14 ॥
श्लोक 8.6.15
अहं गिरित्रश्च सुरादयो ये दक्षादयो ऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ 15 ॥
श्लोक 8.6.16
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं यथैव । जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ 16 ॥
श्लोक 8.6.17
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तान् आह समुद्रोन्मथनादिभिः ॥ 17 ॥
श्लोक 8.6.18
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् । शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥ 18 ॥
श्लोक 8.6.19
यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥ 19 ॥
श्लोक 8.6.20
अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे । अहिमूषिकवद्देवा ह्य् अर्थस्य पदवीं गतैः ॥ 20 ॥
श्लोक 8.6.21
अमृतोत्पादने यत्नः क्रियतामविलम्बितम् । यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो ऽमरो भवेत् ॥ 21 ॥
श्लोक 8.6.22
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ 22 ॥
श्लोक 8.6.23
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ 23 ॥
श्लोक 8.6.24
यूयं तदनुमोदध्वं यदिच्छन्त्य् असुराः सुराः । न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ 24 ॥
श्लोक 8.6.25
न भेतव्यं कालकूटाद्विषाज् जलधिसम्भवात् । लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ 25 ॥
श्लोक 8.6.26
इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ 26 ॥
श्लोक 8.6.27
अथ तस्मै भगवते नमस्कृत्य पितामहः । भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ 27 ॥
श्लोक 8.6.28
दृष्ट्वारीन् अप्य् असंयत्तान् जातक्षोभान् स्वनायकान् । न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ 28 ॥
श्लोक 8.6.29
ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ 29 ॥
श्लोक 8.6.30
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ 30 ॥
श्लोक 8.6.31
तत् त्वरोचत दैत्यस्य तत्रान्ये ये ऽसुराधिपाः । शम्बरो ऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ 31 ॥
श्लोक 8.6.32
ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ 32 ॥
श्लोक 8.6.33
ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः । नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ 33 ॥
श्लोक 8.6.34
दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ 34 ॥
श्लोक 8.6.35
निपतन् स गिरिस्तत्र बहून् अमरदानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ 35 ॥
श्लोक 8.6.36
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ 36 ॥
श्लोक 8.6.37
गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ 37 ॥
श्लोक 8.6.38
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ 38 ॥
श्लोक 8.6.39
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ 39 ॥