मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 9

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.9.1

ते ऽन्योन्यतो ऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ 1 ॥

श्लोक 8.9.2

अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ 2 ॥

श्लोक 8.9.3

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ 3 ॥

श्लोक 8.9.4

न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ 4 ॥

श्लोक 8.9.5

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ 5 ॥

श्लोक 8.9.6

सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ 6 ॥

श्लोक 8.9.7

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ 7 ॥

श्लोक 8.9.8

इत्य् उपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः । प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ 8 ॥

श्लोक 8.9.9

कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ 9 ॥

श्लोक 8.9.10

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्य् आहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ 10 ॥

श्लोक 8.9.11

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसो ऽसुराः । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ 11 ॥

श्लोक 8.9.12

ततो गृहीत्वामृतभाजनं हरिर् बभाष ईषत्स्मितशोभया गिरा । यद्य् अभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ 12 ॥

श्लोक 8.9.13

इत्य् अभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः । अप्रमाणविदस्तस्यास्तत् तथेत्य् अन्वमंसत ॥ 13 ॥

श्लोक 8.9.14

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ 14 ॥

श्लोक 8.9.15

यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ 15 ॥

श्लोक 8.9.16

प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायांजुष्टायां माल्यदीपकैः ॥ 16 ॥

श्लोक 8.9.17

तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ 17 ॥

श्लोक 8.9.18

तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ 18 ॥

श्लोक 8.9.19

असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ 19 ॥

श्लोक 8.9.20

कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः । तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ 20 ॥

श्लोक 8.9.21

दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः । दूरस्थान् पाययामासजरामृत्युहरां सुधाम् ॥ 21 ॥

श्लोक 8.9.22

ते पालयन्तः समयमसुराः स्वकृतं नृप । तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ 22 ॥

श्लोक 8.9.23

तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ 23 ॥

श्लोक 8.9.24

देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबच् चन्द्रार्काभ्यां च सूचितः ॥ 24 ॥

श्लोक 8.9.25

चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितो ऽपतत् ॥ 25 ॥

श्लोक 8.9.26

शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् । यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ 26 ॥

श्लोक 8.9.27

पीतप्राये ऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ 27 ॥

श्लोक 8.9.28

एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयो ऽपि फले विकल्पाः &अम्प्; तत्रामृतं सुरगणाः फलमञ्जसापुर् यत्पादपङ्कजरजःश्रयणान् न दैत्याः ॥ 28 ॥

श्लोक 8.9.29

यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् । तैरेव सद्भवति यत् क्रियते ऽपृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ 29 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ