मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 1

श्रीमद्भागवत नवम स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.1.1

मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ 1 ॥

श्लोक 9.1.2

यो ऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः । ज्ञानं यो ऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ 2 ॥

श्लोक 9.1.3

स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ 3 ॥

श्लोक 9.1.4

तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ 4 ॥

श्लोक 9.1.5

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ 5 ॥

श्लोक 9.1.6

एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच भगवाञ् छुकः परमधर्मवित् ॥ 6 ॥

श्लोक 9.1.7

श्रूयतां मानवो वंशः प्राचुर्येण परन्तप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ 7 ॥

श्लोक 9.1.8

परावरेषां भूतानामात्मा यः पुरुषः परः । स एवासीदिदं विश्वं कल्पान्ते ऽन्यन् न किञ्चन ॥ 8 ॥

श्लोक 9.1.9

तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः ॥ 9 ॥

श्लोक 9.1.10

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततो ऽदित्यां विवस्वान् अभवत् सुतः ॥ 10 ॥

श्लोक 9.1.11

ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ 11 ॥

श्लोक 9.1.12

इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ 12 ॥

श्लोक 9.1.13

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः ॥ 13 ॥

श्लोक 9.1.14

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ 14 ॥

श्लोक 9.1.15

प्रेषितो ऽध्वर्युणा होता व्यचरत् तत् समाहितः । गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः ॥ 15 ॥

श्लोक 9.1.16

होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् ॥ 16 ॥

श्लोक 9.1.17

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया ॥ 17 ॥

श्लोक 9.1.18

यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः । कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्व् इव ॥ 18 ॥

श्लोक 9.1.19

निशम्य तद्वचस्तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ 19 ॥

श्लोक 9.1.20

एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ 20 ॥

श्लोक 9.1.21

एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ 21 ॥

श्लोक 9.1.22

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ 22 ॥

श्लोक 9.1.23

स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ 23 ॥

श्लोक 9.1.24

प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् । दंशितो ऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ 24 ॥

श्लोक 9.1.25

सुकुमारवनं मेरोरधस्तात् प्रविवेश ह । यत्रास्ते भगवान् छर्वो रममाणः सहोमया ॥ 25 ॥

श्लोक 9.1.26

तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप ॥ 26 ॥

श्लोक 9.1.27

तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् । दृष्ट्वा विमनसो ऽभूवन् वीक्षमाणाः परस्परम् ॥ 27 ॥

श्लोक 9.1.28

कथमेवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ 28 ॥

श्लोक 9.1.29

एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ 29 ॥

श्लोक 9.1.30

तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्कात् समुत्थाय नीवीमाश्व् अथ पर्यधात् ॥ 30 ॥

श्लोक 9.1.31

ऋषयो ऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम् ॥ 31 ॥

श्लोक 9.1.32

तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद्भवेदिति ॥ 32 ॥

श्लोक 9.1.33

तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद्वनम् ॥ 33 ॥

श्लोक 9.1.34

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ 34 ॥

श्लोक 9.1.35

सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ 35 ॥

श्लोक 9.1.36

एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ 36 ॥

श्लोक 9.1.37

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ 37 ॥

श्लोक 9.1.38

तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ 38 ॥

श्लोक 9.1.39

मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नो ऽवतु मेदिनीम् ॥ 39 ॥

श्लोक 9.1.40

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ 40 ॥

श्लोक 9.1.41

तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः । दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥ 41 ॥

श्लोक 9.1.42

ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ 42 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ