श्रीमद्भागवत नवम स्कन्ध अध्याय 2
श्रीमद्भागवत नवम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.2.1
एवं गते ऽथ सुद्युम्ने मनुर्वैवस्वतः सुते । पुत्रकामस्तपस्तेपे यमुनायां शतं समाः ॥ 1 ॥
श्लोक 9.2.2
ततो ऽयजन् मनुर्देवमपत्यार्थं हरिं प्रभुम् । इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ 2 ॥
श्लोक 9.2.3
पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ 3 ॥
श्लोक 9.2.4
एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति । शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ 4 ॥
श्लोक 9.2.5
एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रो ऽनुससार ह ॥ 5 ॥
श्लोक 9.2.6
खड्गमादाय तरसा प्रलीनोडुगणे निशि । अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया ॥ 6 ॥
श्लोक 9.2.7
व्याघ्रो ऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ 7 ॥
श्लोक 9.2.8
मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ 8 ॥
श्लोक 9.2.9
तं शशाप कुलाचार्यः कृतागसमकामतः । न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ 9 ॥
श्लोक 9.2.10
एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः । अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ 10 ॥
श्लोक 9.2.11
वासुदेवे भगवति सर्वात्मनि परे ऽमले । एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ 11 ॥
श्लोक 9.2.12
विमुक्तसङ्गः शान्तात्मा संयताक्षो ऽपरिग्रहः । यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ 12 ॥
श्लोक 9.2.13
आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः । विचचार महीमेतां जडान्धबधिराकृतिः ॥ 13 ॥
श्लोक 9.2.14
एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् । तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ 14 ॥
श्लोक 9.2.15
कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् । निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ 15 ॥
श्लोक 9.2.16
करूषान् मानवादासन् कारूषाः क्षत्रजातयः । उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ 16 ॥
श्लोक 9.2.17
धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ । नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥ 17 ॥
श्लोक 9.2.18
वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता । कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ 18 ॥
श्लोक 9.2.19
चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतो ऽभवत् । तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ 19 ॥
श्लोक 9.2.20
वीतिहोत्रस्त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततो ऽभवत् ॥ 20 ॥
श्लोक 9.2.21
ततो ऽग्निवेश्यो भगवान् अग्निः स्वयमभूत् सुतः । कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ 21 ॥
श्लोक 9.2.22
ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप । नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ 22 ॥
श्लोक 9.2.23
नाभागो दिष्टपुत्रो ऽन्यः कर्मणा वैश्यतां गतः । भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ 23 ॥
श्लोक 9.2.24
वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः । खनित्रः प्रमतेस्तस्माच् चाक्षुषो ऽथ विविंशतिः ॥ 24 ॥
श्लोक 9.2.25
विविंशतेः सुतो रम्भः खनीनेत्रो ऽस्य धार्मिकः । करन्धमो महाराज तस्यासीदात्मजो नृप ॥ 25 ॥
श्लोक 9.2.26
तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् । संवर्तो ऽयाजयद्यं वै महायोग्यङ्गिरःसुतः ॥ 26 ॥
श्लोक 9.2.27
मरुत्तस्य यथा यज्ञो न तथान्यो ऽस्ति कश्चन । सर्वं हिरण्मयं त्व् आसीद्यत् किञ्चिच् चास्य शोभनम् ॥ 27 ॥
श्लोक 9.2.28
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ 28 ॥
श्लोक 9.2.29
मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः । सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ 29 ॥
श्लोक 9.2.30
तत्सुतः केवलस्तस्माद्धुन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः ॥ 30 ॥
श्लोक 9.2.31
तं भेजे ऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् ॥ 31 ॥
श्लोक 9.2.32
यस्यामुत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः ॥ 32 ॥
श्लोक 9.2.33
विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः । विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम् ॥ 33 ॥
श्लोक 9.2.34
हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः । तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ 34 ॥
श्लोक 9.2.35
कृशाश्वात् सोमदत्तो ऽभूद्यो ऽश्वमेधैरिडस्पतिम् । इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ 35 ॥
श्लोक 9.2.36
सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः । एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ॥ 36 ॥