श्रीमद्भागवत नवम स्कन्ध अध्याय 11
श्रीमद्भागवत नवम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.11.1
भगवान् आत्मनात्मानं राम उत्तमकल्पकैः । सर्वदेवमयं देवमीजे ऽथाचार्यवान् मखैः ॥ 1 ॥
श्लोक 9.11.2
होत्रे ऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः । अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ 2 ॥
श्लोक 9.11.3
आचार्याय ददौ शेषां यावती भूस्तदन्तरा । अन्यमान इदं कृत्स्नं ब्राह्मणो ऽर्हति निःस्पृहः ॥ 3 ॥
श्लोक 9.11.4
इत्ययं तदलङ्कार वासोभ्यामवशेषितः । तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ 4 ॥
श्लोक 9.11.5
ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् । प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ 5 ॥
श्लोक 9.11.6
अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर । यन् नो ऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ 6 ॥
श्लोक 9.11.7
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे । उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥ 7 ॥
श्लोक 9.11.8
कदाचिल् लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः । चरन् वाचो ऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित् ॥ 8 ॥
श्लोक 9.11.9
नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् । स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ 9 ॥
श्लोक 9.11.10
इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ 10 ॥
श्लोक 9.11.11
अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ । कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ 11 ॥
श्लोक 9.11.12
अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ । तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ 12 ॥
श्लोक 9.11.13
सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः । गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ 13 ॥
श्लोक 9.11.14
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ 14 ॥
श्लोक 9.11.15
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ 15 ॥
श्लोक 9.11.16
तच् छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद्रोद्धुमीश्वरः ॥ 16 ॥
श्लोक 9.11.17
स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ 17 ॥
श्लोक 9.11.18
तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभुः । त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ 18 ॥
श्लोक 9.11.19
स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः । स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ 19 ॥
श्लोक 9.11.20
नेदं यशो रघुपतेः सुरयाच्ञयात्त लीलातनोरधिकसाम्यविमुक्तधाम्नः &अम्प्; रक्षोवधो जलधिबन्धनमस्त्रपूगैः किं तस्य शत्रुहनने कपयः सहायाः ॥ 20 ॥
श्लोक 9.11.21
यस्यामलं नृपसदःसु यशो ऽधुनापि गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् । तं नाकपालवसुपालकिरीटजुष्ट पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ 21 ॥
श्लोक 9.11.22
स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ 22 ॥
श्लोक 9.11.23
पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ 23 ॥
श्लोक 9.11.24
कथं स भगवान् रामो भ्रात्न् वा स्वयमात्मनः । तस्मिन् वा ते ऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ 24 ॥
श्लोक 9.11.25
अथादिशद्दिग्विजये भ्रात्ंस्त्रिभुवनेश्वरः । आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ 25 ॥
श्लोक 9.11.26
आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः । स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ 26 ॥
श्लोक 9.11.27
प्रासादगोपुरसभा चैत्यदेवगृहादिषु । विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ 27 ॥
श्लोक 9.11.28
पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् । आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ 28 ॥
श्लोक 9.11.29
तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः । आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥ 29 ॥
श्लोक 9.11.30
ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः । आरुह्य हर्म्याण्यरविन्दलोचनम् अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ 30 ॥
श्लोक 9.11.31
अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः । अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ 31 ॥
श्लोक 9.11.32
विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः । स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः ॥ 32 ॥
श्लोक 9.11.33
चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः । मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ 33 ॥
श्लोक 9.11.34
धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः । स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः ॥ 34 ॥
श्लोक 9.11.35
तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया । रेमे स्वारामधीराणामृषभः सीतया किल ॥ 35 ॥
श्लोक 9.11.36
बुभुजे च यथाकालं कामान् धर्ममपीडयन् । वर्षपूगान् बहून् नॄणामभिध्याताङ्घ्रिपल्लवः ॥ 36 ॥