श्रीमद्भागवत नवम स्कन्ध अध्याय 12
श्रीमद्भागवत नवम स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.12.1
कुशस्य चातिथिस्तस्मान् निषधस्तत्सुतो नभः । पुण्डरीको ऽथ तत्पुत्रः क्षेमधन्वाभवत् ततः ॥ 1 ॥
श्लोक 9.12.2
देवानीकस्ततो ऽनीहः पारियात्रो ऽथ तत्सुतः । ततो बलस्थलस्तस्माद्वज्रनाभो ऽर्कसम्भवः ॥ 2 ॥
श्लोक 9.12.3
सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत् सुतः । ततो हिरण्यनाभो ऽभूद्योगाचार्यस्तु जैमिनेः ॥ 3 ॥
श्लोक 9.12.4
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्यो ऽध्यगाद्यतः । योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ॥ 4 ॥
श्लोक 9.12.5
पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततो ऽभवत् । सुदर्शनो ऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ 5 ॥
श्लोक 9.12.6
सो ऽसाव् आस्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ 6 ॥
श्लोक 9.12.7
तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः । महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत ॥ 7 ॥
श्लोक 9.12.8
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥ 8 ॥
श्लोक 9.12.9
एते हीक्ष्वाकुभूपाला अतीताः शृण्व् अनागतान् । बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ 9 ॥
श्लोक 9.12.10
ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः ॥ 10 ॥
श्लोक 9.12.11
सहदेवस्ततो वीरो बृहदश्वो ऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीको ऽथ तत्सुतः ॥ 11 ॥
श्लोक 9.12.12
भविता मरुदेवो ऽथ सुनक्षत्रो ऽथ पुष्करः । तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् ॥ 12 ॥
श्लोक 9.12.13
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ 13 ॥
श्लोक 9.12.14
तस्माच् छाक्यो ऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ 14 ॥
श्लोक 9.12.15
रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥ 15 ॥
श्लोक 9.12.16
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ 16 ॥