श्रीमद्भागवत नवम स्कन्ध अध्याय 16
श्रीमद्भागवत नवम स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.16.1
पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् ॥ 1 ॥
श्लोक 9.16.2
कदाचिद्रेणुका याता गङ्गायां पद्ममालिनम् । गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत ॥ 2 ॥
श्लोक 9.16.3
विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता । होमवेलां न सस्मार किञ्चिच् चित्ररथस्पृहा ॥ 3 ॥
श्लोक 9.16.4
कालात्ययं तं विलोक्य मुनेः शापविशङ्किता । आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ 4 ॥
श्लोक 9.16.5
व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितो ऽब्रवीत् । घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे ॥ 5 ॥
श्लोक 9.16.6
रामः सञ्चोदितः पित्रा भ्रात्न् मात्रा सहावधीत् । प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ 6 ॥
श्लोक 9.16.7
वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामो ऽपि जीवितं चास्मृतिं वधे ॥ 7 ॥
श्लोक 9.16.8
उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा । पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ 8 ॥
श्लोक 9.16.9
ये ऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ 9 ॥
श्लोक 9.16.10
एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ 10 ॥
श्लोक 9.16.11
दृष्ट्वाग्न्यागार आसीनमावेशितधियं मुनिम् । भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ 11 ॥
श्लोक 9.16.12
याच्यमानाः कृपणया राममात्रातिदारुणाः । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ 12 ॥
श्लोक 9.16.13
रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ 13 ॥
श्लोक 9.16.14
तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत् स्वनम् । त्वरयाश्रममासाद्य ददृशुः पितरं हतम् ॥ 14 ॥
श्लोक 9.16.15
ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ 15 ॥
श्लोक 9.16.16
विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ 16 ॥
श्लोक 9.16.17
गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ 17 ॥
श्लोक 9.16.18
तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रे ऽमङ्गलकारिणि ॥ 18 ॥
श्लोक 9.16.19
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ 19 ॥
श्लोक 9.16.20
पितुः कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवमात्मानमयजन् मखैः ॥ 20 ॥
श्लोक 9.16.21
ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ 21 ॥
श्लोक 9.16.22
अन्येभ्यो ऽवान्तरदिशः कश्यपाय च मध्यतः । आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ 22 ॥
श्लोक 9.16.23
ततश्चावभृथस्नान विधूताशेषकिल्बिषः । सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् ॥ 23 ॥
श्लोक 9.16.24
स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सो ऽभूत् सप्तमो रामपूजितः ॥ 24 ॥
श्लोक 9.16.25
जामदग्न्यो ऽपि भगवान् रामः कमललोचनः । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ 25 ॥
श्लोक 9.16.26
आस्ते ऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ 26 ॥
श्लोक 9.16.27
एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवो ऽहन् बहुशो नृपान् ॥ 27 ॥
श्लोक 9.16.28
गाधेरभून् महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ 28 ॥
श्लोक 9.16.29
विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ 29 ॥
श्लोक 9.16.30
पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् । आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् ॥ 30 ॥
श्लोक 9.16.31
यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ 31 ॥
श्लोक 9.16.32
यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेफस्तु भार्गवः ॥ 32 ॥
श्लोक 9.16.33
ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ 33 ॥
श्लोक 9.16.34
स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः । यन् नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ 34 ॥
श्लोक 9.16.35
ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि । विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ । ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ 35 ॥
श्लोक 9.16.36
एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ 36 ॥
श्लोक 9.16.37
एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ 37 ॥