श्रीमद्भागवत नवम स्कन्ध अध्याय 17
श्रीमद्भागवत नवम स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.17.1
यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः । नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ 1 ॥
श्लोक 9.17.2
अनेना इति राजेन्द्र शृणु क्षत्रवृधो ऽन्वयम् । क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ 2 ॥
श्लोक 9.17.3
काश्यः कुशो गृत्समद इति गृत्समदादभूत् । शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ 3 ॥
श्लोक 9.17.4
काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता । धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ॥ 4 ॥
श्लोक 9.17.5
यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः । तत्पुत्रः केतुमान् अस्य जज्ञे भीमरथस्ततः ॥ 5 ॥
श्लोक 9.17.6
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः । स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तो ऽलर्कादयस्ततः ॥ 6 ॥
श्लोक 9.17.7
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । नालर्कादपरो राजन् बुभुजे मेदिनीं युवा ॥ 7 ॥
श्लोक 9.17.8
अलर्कात् सन्ततिस्तस्मात् सुनीथो ऽथ निकेतनः । धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ 8 ॥
श्लोक 9.17.9
धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः । वीतिहोत्रो ऽस्य भर्गो ऽतो भार्गभूमिरभून् नृप ॥ 9 ॥
श्लोक 9.17.10
इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः । राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ 10 ॥
श्लोक 9.17.11
तद्गोत्रं ब्रह्मविज् जज्ञे शृणु वंशमनेनसः । शुद्धस्ततः शुचिस्तस्माच् चित्रकृद्धर्मसारथिः ॥ 11 ॥
श्लोक 9.17.12
ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् । रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥ 12 ॥
श्लोक 9.17.13
देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद्दिवम् । इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ 13 ॥
श्लोक 9.17.14
आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः । पितर्युपरते पुत्रा याचमानाय नो ददुः ॥ 14 ॥
श्लोक 9.17.15
त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः । गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः ॥ 15 ॥
श्लोक 9.17.16
अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः । कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः ॥ 16 ॥
श्लोक 9.17.17
ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः । सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ 17 ॥
श्लोक 9.17.18
सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः । क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् ॥ 18 ॥