श्रीमद्भागवत नवम स्कन्ध अध्याय 24
श्रीमद्भागवत नवम स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.24.1
तस्यां विदर्भो ऽजनयत् पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ 1 ॥
श्लोक 9.24.2
रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच् चेदिश्चैद्यादयो नृपाः ॥ 2 ॥
श्लोक 9.24.3
क्रथस्य कुन्तिः पुत्रो ऽभूद् वृष्णिस्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस्ततः ॥ 3 ॥
श्लोक 9.24.4
जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः । ततो नवरथः पुत्रो जातो दशरथस्ततः ॥ 4 ॥
श्लोक 9.24.5
करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः । देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥ 5 ॥
श्लोक 9.24.6
पुरुहोत्रस्त्व् अनोः पुत्रस्तस्यायुः सात्वतस्ततः । भजमानो भजिर्दिव्यो वृष्णिर्देवावृधो ऽन्धकः ॥ 6 ॥
श्लोक 9.24.7
सात्वतस्य सुताः सप्त महाभोजश्च मारिष । भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ॥ 7 ॥
श्लोक 9.24.8
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः । शताजिच् च सहस्राजिदयुताजिदिति प्रभो ॥ 8 ॥
श्लोक 9.24.9
बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू । यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥ 9 ॥
श्लोक 9.24.10
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च ॥ 10 ॥
श्लोक 9.24.11
ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि । महाभोजो ऽतिधर्मात्मा भोजा आसंस्तदन्वये ॥ 11 ॥
श्लोक 9.24.12
वृष्णेः सुमित्रः पुत्रो ऽभूद्युधाजिच् च परन्तप । शिनिस्तस्यानमित्रश्च निघ्नो ऽभूदनमित्रतः ॥ 12 ॥
श्लोक 9.24.13
सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ । अनमित्रसुतो यो ऽन्यः शिनिस्तस्य च सत्यकः ॥ 13 ॥
श्लोक 9.24.14
युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः । युगन्धरो ऽनमित्रस्य वृष्णिः पुत्रो ऽपरस्ततः ॥ 14 ॥
श्लोक 9.24.15
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः । अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः ॥ 15 ॥
श्लोक 9.24.16
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः । धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षो ऽरिमर्दनः ॥ 16 ॥
श्लोक 9.24.17
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश । तेषां स्वसा सुचाराख्या द्वाव् अक्रूरसुताव् अपि ॥ 17 ॥
श्लोक 9.24.18
देववान् उपदेवश्च तथा चित्ररथात्मजाः । पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥ 18 ॥
श्लोक 9.24.19
कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः । कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥ 19 ॥
श्लोक 9.24.20
कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः । अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥ 20 ॥
श्लोक 9.24.21
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ । देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ॥ 21 ॥
श्लोक 9.24.22
देववान् उपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्तासन् धृतदेवादयो नृप ॥ 22 ॥
श्लोक 9.24.23
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता । सहदेवा देवकी च वसुदेव उवाह ताः ॥ 23 ॥
श्लोक 9.24.24
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा । राष्ट्रपालो ऽथ धृष्टिश्च तुष्टिमान् औग्रसेनयः ॥ 24 ॥
श्लोक 9.24.25
कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः ॥ 25 ॥
श्लोक 9.24.26
शूरो विदूरथादासीद्भजमानस्तु तत्सुतः । शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः ॥ 26 ॥
श्लोक 9.24.27
देवमीढः शतधनुः कृतवर्मेति तत्सुताः । देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् ॥ 27 ॥
श्लोक 9.24.28
तस्यां स जनयामास दश पुत्रान् अकल्मषान् । वसुदेवं देवभागं देवश्रवसमानकम् ॥ 28 ॥
श्लोक 9.24.29
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् । देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ 29 ॥
श्लोक 9.24.30
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् । पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥ 30 ॥
श्लोक 9.24.31
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः । कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ 31 ॥
श्लोक 9.24.32
साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् । तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ॥ 32 ॥
श्लोक 9.24.33
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा । प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥ 33 ॥
श्लोक 9.24.34
अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् । योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥ 34 ॥
श्लोक 9.24.35
इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः । सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ॥ 35 ॥
श्लोक 9.24.36
तं सात्यजन् नदीतोये कृच्छ्राल् लोकस्य बिभ्यती । प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ॥ 36 ॥
श्लोक 9.24.37
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् । यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ॥ 37 ॥
श्लोक 9.24.38
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत । सन्तर्दनादयस्तस्यां पञ्चासन् कैकयाः सुताः ॥ 38 ॥
श्लोक 9.24.39
राजाधिदेव्यामावन्त्यौ जयसेनो ऽजनिष्ट ह । दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥ 39 ॥
श्लोक 9.24.40
शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः । देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥ 40 ॥
श्लोक 9.24.41
कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा । बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा ॥ 41 ॥
श्लोक 9.24.42
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् । हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ॥ 42 ॥
श्लोक 9.24.43
मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा । तक्षपुष्करशालादीन् दुर्वाक्ष्यां वृक आदधे ॥ 43 ॥
श्लोक 9.24.44
सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी । आनकः कर्णिकायां वै ऋतधामाजयाव् अपि ॥ 44 ॥
श्लोक 9.24.45
पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥ 45 ॥
श्लोक 9.24.46
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीन् उदपादयत् ॥ 46 ॥
श्लोक 9.24.47
सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥ 47 ॥
श्लोक 9.24.48
नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः । कौशल्या केशिनं त्व् एकमसूत कुलनन्दनम् ॥ 48 ॥
श्लोक 9.24.49
रोचनायामतो जाता हस्तहेमाङ्गदादयः । इलायामुरुवल्कादीन् यदुमुख्यान् अजीजनत् ॥ 49 ॥
श्लोक 9.24.50
विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः । शान्तिदेवात्मजा राजन् प्रशमप्रसितादयः ॥ 50 ॥
श्लोक 9.24.51
राजन्यकल्पवर्षाद्या उपदेवासुता दश । वसुहंससुवंशाद्याः श्रीदेवायास्तु षट् सुताः ॥ 51 ॥
श्लोक 9.24.52
देवरक्षितया लब्धा नव चात्र गदादयः । वसुदेवः सुतान् अष्टाव् आदधे सहदेवया ॥ 52 ॥
श्लोक 9.24.53
प्रवरश्रुतमुख्यांश्च साक्षाद्धर्मो वसून् इव । वसुदेवस्तु देवक्यामष्ट पुत्रान् अजीजनत् ॥ 53 ॥
श्लोक 9.24.54
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः । ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥ 54 ॥
श्लोक 9.24.55
अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल । सुभद्रा च महाभागा तव राजन् पितामही ॥ 55 ॥
श्लोक 9.24.56
यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः । तदा तु भगवान् ईश आत्मानं सृजते हरिः ॥ 56 ॥
श्लोक 9.24.57
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः ॥ 57 ॥
श्लोक 9.24.58
यन् मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि । अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ 58 ॥
श्लोक 9.24.59
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः । भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ॥ 59 ॥
श्लोक 9.24.60
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः । सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः ॥ 60 ॥
श्लोक 9.24.61
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ 61 ॥
श्लोक 9.24.62
यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् । श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ॥ 62 ॥
श्लोक 9.24.63
भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः । श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः ॥ 63 ॥
श्लोक 9.24.64
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया । नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥ 64 ॥
श्लोक 9.24.65
यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् । नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ 65 ॥
श्लोक 9.24.66
जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून् सुतशतानि कृतोरुदारः । उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन् जनेषु ॥ 66 ॥
श्लोक 9.24.67
पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः । दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात् स्वधाम ॥ 67 ॥